SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे प्रमोदगीतवादिननटनर्तकसंयुतः । तदने जागरः कार्यः समस्तामेव तां निशाम् ॥ १०४ ॥ पुरोहितस्ततो भास्वत्युदिते प्रयतेन्द्रियः । अग्नेः परिग्रहं कुर्यान्मूलस्य प्रागुदग्दिशि ॥ १०५ ॥ कृतोपलेपनं तस्मिन्नुल्लेखाभ्युक्षणैस्ततः । संस्कृत्यास्तीर्य दर्भाश्च ज्वालयेत् तत्र पावकम् ॥ १०६॥ तत्राज्यपात्राण्याज्यं च गन्धांश्च कुसुमानि च । द्रव्याणि वाचनीयानि समिधश्च पलाशजाः ॥ १०७॥ सौवर्णो स्रक्वाविन्द्रभक्तं च बलयोऽपिच । इत्येतत्सर्वमाहृत्य जुहुयात् पावकं ततः ॥ १०८ ॥ पुत्रदारपशुद्रव्यसैन्ययुक्तस्य भूपतेः । विजयावाप्तिजनकर्मन्त्रैः शान्तिविधायिभिः ॥ १०९ ॥ सुस्वनः सुमहार्चिश्च स्निग्धश्चेद्धोऽपिच स्वयम् । कान्तिमान् सुरभिर्जिघ्रन् होतारं शस्यतेऽनलः ॥ ११० ॥ तप्तकाञ्चनसच्छायो लाक्षाभः किंशुकच्छविः । प्रवालविद्रमाशोकसुरगोपसमद्युतिः ।। १११ ॥ ध्वजान्कुशगृहच्छत्रयपप्राकारतोरणैः ।। सदृशार्चिः प्रशस्तोऽग्निर्माङ्गल्यैरपरैस्तथा ॥ ११२ ॥ स्निग्धः प्रदक्षिणशिखो विधमो विपुलोऽनलः । सुभिक्षक्षेमदः प्रोक्तो दीप्यमानश्चिरं तथा ॥ ११३ ॥ धूम्रो विवर्णः परुषः पीतो वा नीलकोऽथवा । विच्छिन्नो भैरवरवो वामावर्तशिखोऽल्पकः ॥ ११४ ॥ मन्दार्चिद्युतियुक्तोऽसृग्वसागन्धः स्फुलिङ्गवान् । धूमातः सफेनश्च हुतभुग न जयावहः ॥ ११५ ॥ दर्भाणां संस्तरं वह्निोमाङ्गान्यपराणि वा । हूयमानो दहति चेद्धानिस्तदभिनिर्दिशेत् ॥ ११६ ॥ १. 'न्धिः' ख. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy