SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । साङ्घ्रिणा ध्वजनाहेन सव्यंशेनाथ विस्तृतिः । विधेया शक्रपिटकस्योच्छ्यस्तु तदर्धतः ॥ ९१ ।। अस्मिन्नष्टौ दिशः कृत्वा वंशव्यवहिते ततः । न्यस्येद् दिगीशांश्चतुरस्तस्योपरि यथादिशम् ॥ ९२ ॥ पञ्चमांशगते कुष्याद् वत्रिणः पिटके कृते ।। शेषाण्यप्यष्टभागोनान्यस्मिन् न्यस्यद् यथाक्रमम् ॥ ९३ ॥ बलाकादीनि विस्तृत्या चरणोनानि चोच्छ्रिती। स्ववर्णवन्ति वृत्तानि रामणीयकवन्ति च ।। ९४ ॥ भङ्गपातविपर्या (सो?स)सिद्धयः पिटकोद्भवाः । पीडार्तिमृत्यवेऽत्यथेमेकैकस्य प्रकीर्तिताः ॥ ९५ ।। शुद्धान्तामात्यचित्तानां बलस्य यशसोऽपि च ।। वसुमत्याश्च धाम्नां च नृपते राष्ट्र (म?प)स्य च ।। ९६ ॥ केतुषड्भागविस्तारा रजवोऽष्टौ सुवर्तिताः । विधेयाः स्युर्वजायामत्रिगुणायतयो दृढाः ॥ ९७ ॥ छादितं छ(वि?दि)भिः पूर्वं कुटनीसहितं शुभम् । यत्नेनासन्नदिवसे विदध्यादमरध्वजम् ।। ९८ ।। अर्केन्दग्रहतारात वेणुगुल्मेन्द्रशीर्षकम् । साष्टकण्ठगुणं दण्डमूत्रादशान्वितं शुभम् ॥ ९९ ॥ ससस्यफलपुष्पाढ्यं शुभवस्त्रमलकृतम् । दृढमन्वितमष्टाभिः सन्तताभिश्च रज्जुभिः ॥१०० ॥ ध्वजपट्ट विदध्याच चित्रं सुरचितं तथा । निमित्तार्थं च लोकानां शोभाहेतोध्वजस्य च ॥ १०१ ।। सपत्तनपुरारामगन्धर्वत्रिदशासुरम् ।। निखिलं जगदालेख्यमस्मिन्नद्रिद्रुमाकुलम् ॥ १०२॥ ध्वजाग्रे रश्मिभिर्नद्धं (स?सु)विन्यस्तं च भूतले । विन्यसेत् तमसम्मूढमधोभागसमाश्रितम् ।। १०३ ॥ १. 'वो' ख. पाठः । २. 'सात् ', ३. 'पूर्ण कुट्टिनी' क. पाठः । - "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy