________________
७६
समराङ्गणसूत्रधारे
शक्रं स्वस्थानमानीतं शीघ्रं सुखमविघ्नतः । प्राग्वत् प्रदक्षिणं न्यस्येत् प्रागग्रं शयने निजे ॥ ७८ ॥ कुर्यात् तत्रैव नक्षत्रे शय्यास्थस्यामरेशितुः । भ्रमे कुष्ये च संयोगं यथाभागविकल्पितम् || ७९ ॥ कुष्ये संयोज्यमानश्चेद् ध्वजो निपतति क्षितौ । तदा नरपतेः स्थानभ्रंशो भवति निश्चितः ॥ ८० ॥ कुष्ययोगे यदा शक्रो वामतः परिवर्तते । तदा स्यात् स्थपतेर्मृत्युर्भवेद् भङ्गश्च दक्षिणे ॥ ८१ ॥ स्ववेधं प्रतिपद्येत तद्यष्टिर्यदि कृच्छ्रतः । प्रमादिनस्तदा राज्ञो जायते व्यसनं महत् ॥ ८२ ॥ निष्कुष्य योजितः शक्रध्वजो विघटते यदि । विश्लिष्यति तदा सन्धिः सामन्तैः सह भूपतेः ॥ ८३ ॥ स्फुटेद् भज्येत वा कुष्ये योज्यमानोऽथ सर्वतः । तदा भङ्गे नृपव्याधिः स्फुटनादङ्गनावधः || ८४ ॥
अविदीर्णमपर्यस्तमव्यङ्गमैत्रिलम्बितम् । यथावन्न्यासमायाति योगं चेद् वासवध्वजः ।। ८५ ।। धनभृत्याङ्गनापत्यैः सामन्तवान्वितोऽनुगैः ।
निरातङ्को बलाज वृद्धिमेति तदा नृपः ॥ ८६ ॥ यत्नतो रक्ष्यमाणस्य शय्यास्थस्यैव वज्रिणः | तस्याङ्गान्यखिलान्येव कुंटन्यादीनि योजयेत् ॥ ८७ ॥ ऐन्द्रं वलोकं यक्षेशं सर्पमादं दिगाह्वयम् । मयूरं चेन्द्रशीर्षं च पिटकाष्टकमित्यदः ॥ ८८ ॥ स्वप्रमाणेन कर्तव्यं स्पष्टरूपसमन्त्रितम् । attoयाचान्तरेष्वेषां सन्धयो वस्त्रनिर्मिताः ॥ ८९ ॥ मूलादन्वग्रमायातैः स्ववंशेर्विद लेटेटेः । yuva agri घनैरशिथिलैर्ध्वजम् ॥ ९० ॥
१. 'कृष्ये' ख. पाठः । २ ' कुष्यायो', ३. ' मवल' क. पाठः । ४, 'कू' ख. पाठः । ५. ‘जा ’, ६. 'स्वेष्ट', ७. 'दाक्षाश्चा' क. पाठः । ८. ' तैस्तं वं ' ख. पाठः ।
"Aho Shrut Gyanam"