________________
७५
इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । स्थपतिर्वा पुरोधा वा शुचिः स्नातः समाहितः । गन्धमाल्यार्चितान् विप्रांस्तर्पयेद् दक्षिणादिभिः ॥ ६५ ॥ ततो मङ्गलघोषेण वादिबनिनदेन च । पुण्याहजयशब्देस्तमुत्क्षिपेयुः समाहिताः ॥ ६६ ॥ अलङ्कारभृतः पौराः प्रहृष्टमनसोऽखिलाः ।। नीरुजो वलिनः शक्ताः प्रकृत्यभिमताच ये ॥ ६७ ।। स्तुवीरन् पुण्यमनसः स्तुतिभिः मूतमागधाः । वन्देरन् चन्दिनश्चेन सेवेरन् गणिका अपि ।। ६८ ।। प्रविशन्तं निजं स्थानमनुगच्छेन्नराधिपः ।। सुराधिपं बलामात्यपौरजानपदान्वितः ।। ६९ ।। प्रोद्यत्कलकलारावसुस्वराः पुरुषा यदि । उत्क्षिपेयुः प्रहृष्टा वा वहेयुवा सुराधिपम् ।। ७० ॥ तदा भवति भूपालो जयी नन्दन्ति च प्रजाः । राष्ट्रे सुखं पुरे हर्षो भवेन्नश्यन्ति चतयः ।। ७१ ॥ मुञ्चत्युत्थापितः कृच्छाद यदि शय्यां स गौरवात । तदा नृपतिरभ्येति महती विमनस्कताम् ।। ७२ ।। स्खलन्तो दुःखिता दीना निःश्वसन्तः पदे पदे । वैचित्यभाजो गच्छेयुर्देशहानिस्तदा ध्रुवम् ॥ ७३ ॥ भूमौ यदेकदेशेन हसितः(?)पतति ध्वजः । न सुभिक्षं न च क्षेमो न राज्ञो विजयस्तदा ॥ ७४ ॥ दीर्णे भन्नेऽथ पतिते कृत्स्ने चास्मिन् समुद्धृते । स्यान्नृपस्यावनिच्छेदः सुतध्वंसोऽथवा मृतिः ।। ७५ ।। वस्त्रालङ्कृतिमाल्यानां हरणात् पतनादुत । तादृशद्रव्यविध्वंसः पौराणां भवति ध्रुवम् ।। ७६ ॥ पुरं भवति निःशब्दं निष्प्रभ वा प्रवेशने । समुच्छ्ये वा शक्रस्य तदा तन्नाशमृच्छति ।। ७७ ।। १.'च' क. पाठः।
"Aho Shrut Gyanam"