SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे भृङ्गमुख्यपदद्वन्द्वमध्ययोर्वायुकोणयोः । न्यस्येत् स्तम्भो तयोः पीठी मल्ले च विनिवेशयेत् ।। ५२ ॥ पीठिका निर्गना बाहयुग्मात तत्राग्रयोगतः । स्तम्भिन्यौ रोययेद् ब्राह्मं पृथक्पदयुगं श्रिते ।। ५३ ।। प्रतिक्षोभाविह द्वौ द्वौ बाहद्वितयमाश्रितो। बाह्यतः प्रान्तपदयोमैत्रयोविनिवेशयेत् ।। ५४ ॥ प्राच्यां मल्लाग्रतो ज्ञात्वा शक्रस्योर्ध्वगति क्रमात् । योजयेद् भ्रमणोपेतो भ्रमपादावभङ्गुरो ।। ५५ ।। मल्लात् पश्चिमदिग्भागे वरुणस्याश्रितां पदम् । भद्रां निवेशयेन्निम्नमानतः शक्रमातरम् ॥ ५६ ।। स्युः पजेन्यान्तरिक्षद्वाये(क्ष्मा?क्ष्मणां पदमाश्रिताः । क्रमानन्दोपनन्दाख्यजयाख्यविजयाभिधाः ।। ५७ ।। विन्यस्तास्वथ सासु कुमारीपु विभागशः । यस्त्रयः प्रतिक्षोभा योज्या दायाय बाह्यतः ।। ५८ ॥ निक्षिपन्नखिलं द्रव्यं भावयेत् पददेवताः । पामोति तत्तदायां तद्र्व्यं पूजां च तद्गताम् ॥ ५९ ॥ पीठीपृष्ठसमं कन्यापार्ययोरुभयोरपि । कुर्यादनुसरद्वन्द्वं कीलकैद्धमायसैः ॥ ६० ।। संश्रित्यानुसरद्वन्द्वं पीठी चोपरि सङ्ग्रहात् ।। बनीयात् कीलकैलहियन्त्रनिश्चलताकृते ।। ६१ ॥ यन्त्रकर्मणि निवृत्त इति शास्त्रविधानतः । प्रवेशयीत स्वस्थाने त्रिदशाधिपमैन्द्रभे ॥ ६२ ॥ स्नातस्य विधिवद वस्त्रच्छन्नस्यालेपितस्य च ।। श्रीखण्डायैः सुरभिभिः कुसुमैरर्चितस्य च ॥ ६३ ।। रौहिणादिमुहूर्तेषु त्रिषु मैत्रेऽथ वत्रिणः । प्रवेशमभिनन्दन्ति करणेष्वचिंतेषु च ।। ६४ ।। १. 'दं मध्याभ्यां वायु' व. पाठः । २. 'वाय', ३. 'तिक्रमः', ४. 'तः', ५. 'नादयेत्' क. राटः । ६. 'ख्यानां द्र' ख, पाठः । ७. 'तानु' क. पाठः। ८. '3' ख, पाटः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy