SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे अथ इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः। सुराणामर्थसिद्धयर्थ वधाय च सुरगृहाम् । यथा शक्रध्वजोत्थानं प्राह ब्रह्मा तथोच्यते ॥ १ ॥ भगवन्तमथाम्भोजसंभवं वचसांपतिः। प्रोवाच कथमिन्द्रेण जेतव्यास्त्रिदशद्विषः ॥ २॥ सोऽब्रवीत् सर्वरत्नानां ध्वजं कुरुत सङ्गताः । तं चाभिचारिकैर्मन्त्रैरुद्वहन्तोऽभिमन्त्रितम् ॥ ३ ॥ स्थितं चोपरि यन्त्रस्य सम्यक् पक्षिशतान्वितम् । अग्रतो देवसैन्यस्य नयन्तो जेष्यथ द्विषः ॥४॥ सहस्रधारमप्येकमन्यं रिपुकुलान्तकम् । दिव्यरूपमयं प्रादाद ध्वजमिन्द्राय दुर्धरम् ।। ५ ।। वीर्यप्रवर्धनी चेष्टिरेतदर्थं विधीयते । कर्मणानेन निःशेपाञ् शक्रः शत्रू जयेदिति ॥ ६ ॥ जयपी तमथ क्षिप्रमहजच्चेतसा ध्वजम् । यन्त्रस्थितं स येनाजाबमोहयदरीन् हरिः ॥ ७ ॥ आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ । अलश्चक्रस्तमालोक्य मरुतश्च विभूषणः ॥ ८॥ तेजो वीर्य वपुश्चेष्टां बलमप्येष पश्यताम् ।। अहरच्छत्रुसैन्यानां तेजस्वी तरसा ध्वजः ॥ ९ ॥ तमभ्यर्य सुराधीशः शत्रन् वलवतोऽप्यसौ । त्रिरात्रेणाजयद् युद्धे कुलिशेन बलाद् बली ॥ १० ॥ ततः प्रीतस्तमृक्षेऽसौ वैष्णवे द्वादशे तिथौ । त्रैलोक्यराज्यं प्राप्याभ्यपिञ्चद् वलनिषूदनः ॥ ११ ॥ स सर्वलोकमभ्यर्च्य सर्वलोकाभिपूजितः । ध्वजमभ्यर्च्य तुष्टाव वाक्यैवत्रनिषूदनः ॥ १२ ॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy