________________
वनप्रवेशः षोडशोऽध्यायः । छिन्याच शुभभागांधदशभागाधिकं कृतम् । तुङ्गीसाधवमध्यश्च(?)सगर्भो धरणीरुहः ।। ४२ ।। ज्ञेयानि मण्डलान्यस्य तत्क्षणोच्छे?क्षणे छे)दनेऽपिच । मञ्जिष्ठाभे विदुर्भकं कपिलाभे च मूषकम् ॥ ४३ ॥ पीतभासि तथा गोधां सर्प दीर्घसितायते । गुडच्छाये मधु भवेत् कुकलासस्तथारुणे ॥ ४४ ॥ गृहगोधा कपोतामे गौधेरो घृतमण्डभे । • रसाञ्जनामे शस्त्राभे कमलोत्पलभासि च ॥४५॥ धौतासियष्टिवणे च मण्डले जलमादिशेत् । आकारो यस्य सर्पस्य वर्णो वा संप्रदृश्यते ॥ ४६॥ तं सर्पगर्भितं वृक्षमादिशेदविचारयन् । तस्करेभ्यो भयं क्षौद्रे सलिले सलिलाद भयम् ॥ ४७ ।। विद्यात् सर्प विषाद् भीति पाषाणे भयमग्नितः । अजाविगोमहिष्युष्ट्ररासभादिनिपीडितम् ॥ ४८ ।। गोधागौधेरमण्डूकककलासैश्च गर्भिते । मूषके पुनरिच्छन्ति मरणं वास्तुदेदिनः ॥४९॥ अमुनैव वदन्त्यन्ये गृहपीडां मनीषिणः । क्षेमेण यद्यविघ्नः स्यादसङ्गश्चागमो यदि ॥ ५० ॥ वनान्तरे तदा क्षेमं सुभिक्षं च समादिशेत् ॥ ५० ॥ अर्घदानविधिना विधानविद् द्रव्यमागतमिहाचयेद् गृही। प्रत्युपेतंकुलिशायुधध्वजं द्रव्यमुज्ज्वलमुतावनीपतिः ॥ ५१॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वनप्रवेशो नाम षोडशोऽध्यायः ।।
.. १. 'तु' क. पाठः ! २. 'गार्धे', ३. 'नुनी स्याद्यधम(१)', ४. 'त्य ' ख. पाठः।
"Aho Shrut Gyanam"