SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे धन्यः शिवः पुष्टिकरः प्रजाद्धिकरो भव । स्वस्ति (ते?च)न्द्रानिलयमाः मूर्यरुद्रानलास्तथा ॥ २८ ॥ दिशो नयस्तथा शैलाः पान्तु त्वामृषिभिः सह । जल्पेद् यो मानुषगिरा कम्पते वाभिमन्त्रितः ॥ २९ ॥ स त्याज्यः स्यात् तथा म्लानप्रवालकुसुमश्च यः । ततो भास्करमालोक्य वृक्षं कृत्वा प्रदक्षिणम् ।। ३० ॥ स्वस्तिवाक्येन विप्राणां छत्ता स्थित्वोदगाननः । प्राङ्मुखो वा तरुं छिन्द्याच्छस्त्रैः क्षौद्रादिताननैः ॥ ३१ ॥ शाखिनश्छिद्यमानस्य जायते यद्यसक्युतिः । कम्पनं वा ध्वनिर्वापि मृत्युः स्याद् गृहिणस्तदा ॥ ३२ ॥ यद्वा दधिमधुक्षीरघृतानि स्रवति द्रमः। छिद्यमानस्तदा विद्याद बन्धव्याधीन कुटुम्बिनः ॥ ३३ ॥ अतीव यस्य सवति श्यामः स्नेहान्वितो रसः । सुगन्धिः स्वल्पमधुरः कपायः स प्रशस्यते ॥ ३४ ॥ प्राच्यां शुभस्तरोः पात उदीच्या कर्मसाधकः । याम्यप्रत्यङ्निपाते तु शान्ति कृत्वा द्रुमं त्यजेत् ।। ३५ ॥ ज्ञातितः स्यात् तदा भीतिर्यदान्यं मर्दयेत् पतन् । दूरं दलति यो मू(लं?ले) छिन्नो वा धरणीरुहः ।। ३६ ।। कूजत्यतीव वायुश्च स्मृतः सोऽथ शुभप्रदः । खरोष्टयोः शृगालानां दर्शनं भुजगस्य वा ।। ३७ ॥ छेदे स्यात् कर्मविघ्नाय निगडैइन्धनाय वा । हलचक्रपताकाजध्वजच्छत्रादिदर्शनम् ।। ३८ ॥ श्रीक्षवर्धमानादिदर्शनं वा शुभमदम् । उत्क्षिप्यते यदिच्छेदात् तदर्द्धिः स्यात् कुटुम्बिनः ॥ ३९ ॥ सर्वतः परिहानिः स्याच्छिन्नश्वाक्षिप्यते यदि । एकक्षे यथोदिष्टलक्षणोत्क्षेपदर्शने ॥ ४० ॥ शेषान् दोषविनिर्मुक्कान् पादपानुपलक्षयेत् । धीरस्तं कल्पयेत् सम्यगनुलोमार्जवं तरुम् ॥ ४१ ॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy