________________
वनप्रवेशः षोडशोऽध्यायः।
६५ अन्येषामपि चात्रैव सामन्तानां महीपतेः । ऐशान्यामनलस्थाने वोच्छ्रितस्तम्भवेदिकम् ।। ४४ ॥ कार्य देवकुलं चारु सुश्लिष्टमणिकुट्टिमम् । पर्जन्यस्य पदे होराज्योतिर्विद्गृहमिष्यते ॥ ४५ ॥ जये सेनापतेर्वेश्म विधेयं विजयप्रदम् । द्वारं प्राकारमाश्रित्य पदेयम्णः प्रशस्यते ।। ४६ ।। प्रारदक्षिणाश्रितं शस्त्रकर्मान्तं शस्त्रमन च । विमुश्चेद् ब्रह्मणः स्थानमिन्द्रध्वजयुतं नृणाम् ॥ ४७ ॥ तत्राशुभानि वेश्मानि निवेशाश्चासुखावहाः । गवाक्षस्तम्भशोभिन्यो विधेयाश्चानुकामतः ॥ ४८ ॥ सभा यथादिक्प्रभवा नृपवेश्माभिगुप्तये । सर्वत्र नृपतेः सौधान् नृपसोधस्य सम्मुखा ।। ४९ ॥ पश्चाद्भागाश्रिता यद्वा शाला कार्या विषाणिनाम् । इत्यास्पदं सुरपदास्पदकल्पमाद्यमेतद् यथावदनुतिष्ठति यः सदैव । स मामिमां भुजबलक्षपितारिपक्षः
सप्ताम्बुराशिरशनां नृपतिः प्रशास्ति ॥ ५० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
राजनिवेशो नाम पञ्चदशोऽध्यायः ॥
अथ वनप्रवेशो नाम षोडशोऽध्यायः ।
प्राग्वोदग्वापि गेहार्थे द्रव्यं विधिवदानयेत् । गन्तव्यमेव धिष्ण्येषु* मृदुक्षिप्रचरेषु च ॥ १॥ १. 'सु' क, पाठः। * धिष्ण्येषु नक्षत्रेषु ।
"Aho Shrut Gyanam"