________________
६६
समराङ्गणसूत्रधारे उपवास्यं च तेष्वेवच्छेचं भयं च दारुणैः । प्रवेशनं स्थिरैः कार्यभारम्भः शस्यते चरैः ॥ २ ॥ गत्वा शुभे शुचौ देशे निवेशं कारयेत् ततः । तस्मिन्निवेश्य कर्मान्तमनपानेन तर्पयेत् ॥ ३ ॥ पुष्टतुष्टपरीवारः क्षपायां समुपोपितः।। गृहयोग्यं परीक्षेत न्यस्तशस्त्रस्ततोऽधिपम् ॥ ४ ॥ पुरश्मशानग्रामाध्वहदत्याश्रमोद्भवान् । क्षेत्रोपवनसीमान्तर्विपमस्थलनिम्नजान् ॥ ५॥ क.म्लतिक्तलवणास्ववनीषु तथोद्गतान् । श्वभ्रातान् स्थिरोर्वीषु सम्भूतांश्च त्यजेद द्रुमान् ॥ ६ ॥ सम्यक संलक्ष्य वृक्षाणां वर्णनेहत्वमादिकम् । विजानीयाद् वयस्तेषां वान् वृद्धांश्च सन्त्यजेत् ॥ ७॥ शतानि त्रीणि वपांगां सारदुमययः स्मृतम् । गृहणीयात् पोडशाच साधेवपेशतावधेः ॥ ८ ॥ वयसः परिणामेन निर्यित्वं यथा नृणाम् । प्रोक्तं तद्वद् गुमाणां च स्यात् तथा छिद्रपत्रता ॥९॥ भगुराः मुघिरास्ते स्युः सकोलाक्षाः खरत्वचः। तस्मादिमांस्त्यजेद् वृक्षांस्तथा चवोध्वेशोषिणः ।। १० ।। वक्रान् रूक्षानवप्लुष्टान् दुःस्थितानपिच द्रुमान् । वर्जयेद् भग्नशाखांश्च येकशाखान्वितांस्तथा ॥ ११ ॥ अन्यैरधिष्ठितान् विद्युत्पातवातसरित्क्षतान् । ग्रन्थिनियुक्तदानांश्च भ्रमराहिकृताश्रयान् ॥ १२ ॥ संसृष्टानेकतो भ्रष्टान् मधुभिर्वलिभिट्टतान् । मांसामेथ्याशनैस्तद्वद् दूपितानपि पक्षिभिः ॥ १३ ॥ लूतातन्त्वाहतान् बन्यसोधृष्टान् गजक्षतान् । चुनतोऽतिबृहत्स्कन्धांश्चिदभूतांस्तथाध्वनः ॥ १४ ॥ १. ताशनिक्ष' ख. पाठः । २. 'भि क. पाठः ।
"Aho Shrut Gyanam"