SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे दुर्गेषु भूवशात् कार्यं यद्वा विश्वपरास्वपि । विवस्वद्भूधरार्यम्णां कार्यमन्यतमे पदे ॥ ५ ॥ त्रिचत्वारिंशता युक्ते ज्येष्ठं स्याद् द्वे धनुःशते । मध्यं शतं तु द्वापष्टिः शतं साष्टकमन्तिमम् ॥ ६ ॥ ज्येष्ठे पुरे विधातव्यं ज्येष्ठं राजनिवेशनम् । मध्यमे मध्यमं कार्य कनिष्ठं च कनीयसि ॥ ७ ॥ प्राकारपरिखागुप्तं चारुकान्ति समन्ततः । तमङ्गभ्रमनियूहसुदृढाट्टालकान्वितम् ॥ ८॥ एकाशीत्या पदैर्भक्तं विधेयं नृपमन्दिरम् । राजमाग समाश्रित्य वास्तुद्वारमुदङ्मुखम् ।। १ ।। युक्त्यानयैव कर्तव्यमन्यदिक्संश्रयेऽपिच । भल्लाटपदवय॑स्य गोपुरद्वारमिष्यते ॥ १० ॥ तत्पुम्हारविस्तारोच्छायसम्मितमिष्टदम् । महन्द्रं द्वारमिच्छन्ति निविष्टस्य महीधरे ॥ ११ ॥ वैवस्वते पुष्पदन्नमर्यम्णि च गृहक्षतम् । अन्येष्वेषामपरतः प्रदक्षिणपदेष्वथ ।। १२ ॥ अन्यान्यपि स्वासु दिक्षु द्वाराण्येवं प्रकल्पयेत् । आभिमुग्न्ये च सर्वेषां शस्यन्ते गोपुराणि च ॥ १३ ॥ तटीयनगरद्वाराद विंशत्यंशोज्झितानि वा । पक्षद्वाराणि सुग्रीवे जयन्ते मुख्यनाम्नि च ॥ १४ ॥ वितथंथ भ्रमांस्तद्द विदधीत प्रदक्षिणान् । वास्ता विभक्त पुरवत् क्लोऽमरपदव्रजैः । १५ ।। तत्र मैत्रपदस्थाने निवेशायावनीपतेः । प्रासादः प्राङ्मुखः कार्यो यथावत् पृथिविजयः ।। १६ ।। श्रीवृक्षं सर्वतोभद्रं मुक्तकोणमथापरम् । यमिच्छेन्नृपतिः कुर्यात् प्रासादं शुभलक्षणम् ॥ १७ ॥ १. 'प्रजेत् ।' ख. पाठः। २, 'वीजयः - क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy