SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पुरुषाङ्गदेवतानिघण्टादिनिर्णयश्चतुर्दशोऽध्यायः । अर्कः स्याद् दक्षिणे वामे भुने सोमः प्रतिष्ठितः । महेन्द्रचरको सापवत्सावस्योरसि स्थितौ ।। ३ ॥ स्तनेर्यमा दक्षिणे स्याद् वामे च पृथिवीधरः ।। यक्ष्मा रोगश्च नागश्च मुख्यो भल्लाट इत्यमी ।। ४ ।। दक्षिणेतरमेतस्य बाई देवाः समाश्रिताः ।। सत्यो भृशो नभो वायुः पूषा चेत्यथ दक्षिणम् ॥ ५ ॥ पञ्चापि बाहमेतस्य संश्रितास्त्रिदिवौकसः ।। सावित्रसवितागै च रुद्रशक्तिधरावपि ॥ ६ ॥ चत्वारोऽमी क(लाधि?फोणिस्थाः करयोर्हदि च स्वभूः । वितोकःक्षतौ पार्श्वे दक्षिणेऽस्य व्यवस्थितौ ।। ७ ॥ वामे पुनः स्थितावस्य देवी शोपासुराभियो । मित्राभिधो विवस्वांच द्वावप्युदरमाश्रितौ ॥ ८ ॥ मेदमध्यस्थितावस्य सुराविन्द्रजयाभिधौ । यमश्च वरुणश्चोर्वोः क्रमाद दक्षिणवामयोः ॥ ९ ॥ गन्धर्वभृङ्गो समृगौ जवां सव्यामथेतराम् । द्वास्थसुग्रीवपुष्पाख्याः संश्रिताः पितरोऽविगाः ॥ १० ॥ एकाशीतिपदस्येशदिग्विभागाश्रितं शिरः । माहेन्द्रीसंश्रितं विद्याचतुःपष्टिपदस्य तु ॥ ११ ॥ एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः । यः पांडशपदः स स्याच्चतुष्पष्टिपदोद्भवः ॥ १२ ।। मध्ये य एव देवानां स्थितो ब्रह्माजसंभवः । स सहसाननोऽचिन्त्यविभवो जगतां प्रभुः ॥ १३ ।। योऽयं वहिरिहोक्तः स सर्वभूतहरो हरः । पर्जन्यनामा यश्चायं दृष्टिमानम्वुदाधिपः ।। १४ ॥ जयन्तस्तु द्विनामाख्यः कश्यपो भगवानृषिः । महेन्द्रस्तु सुराधीशो दनुजानां विमदेनः ॥ १५ ॥ आदित्यं पुनरिच्छन्ति विवस्वन्तगहस्करम् । सत्यो भूतहितो धर्मो भृशः कामोऽथ मन्मथः ॥ १६ ॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy