SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मर्मवेधस्त्रयोदशोऽध्यायः । यः पुनः स्याच्चतुःपष्टिपदस्तेन विभाजयेत् । नरेन्द्रशिविरग्रामखेटादि नगरादि च ॥ ५ ॥ अन्तस्त्रयोदश सुरा द्वात्रिंशद वाह्यतश्च ये । तेषां स्थानानि ममोणि सिरा वंशाश्च तेषु तु ॥ ६ ॥ भुख हृदि च नाभी च मूर्ति च स्तनयोस्तथा । मर्माणि वास्तुपुंसोऽस्य पमहान्ति प्रचक्षते ।। ७ ॥ वंशानुवंशसम्पाताः पदमध्यानि यानि च । .. देवस्थानानि तान्याये पदपोडशकान्विते ।। ।। देवस्थानानि सम्पाताश्चतुःषष्टिपद पुनः ।। तथैकाशीतिपदिक पदान्तशतिकेऽपिच ।। ९ ।। चतुष्वपि विभागेपु सिरा याः स्युश्चतुर्दिशम् । मर्माणि तानि चोक्तानि द्वारमध्यानि यानि च ॥ १० ॥ भित्तिविस्तृतमध्येन यद्वा मध्येन दारुणः । मर्म यत् पीड्यने येन गृहे सत्रोच्यने फलम् ।। ११ ॥ द्वारा भित्तिभिर्वापि मर्मणां परिपीडनात । दोर्गत्यं गृहिणः पाहुः कुलहानिमथापि वा ।। १२ ।। भवेत् स्वामिक्षयः स्तम्भस्तुलाभिः स्त्रीपरिक्षयः ।। स्नुषावधो जयन्तीभिवन्धुनाशश्च साहैः ।। १३ ।। मर्मस्थानगतेः कार्यमतुः कायो निपीड्यने । सुहृद्विश्लेपमिच्छन्ति सन्धिपालेश्च तद्विदः ॥ १४ ॥ नागपाशैर्धनोच्छेदो नागदन्तैः सुहृत्क्षयः । कपिच्छकैथ मर्मस्थैः प्रेमाण क्षयमादिशेत् ।। १५ ।। पदारुकाण्यनुसिरागवाक्षालोकनानि च । मर्ममध्योपनान्येतान्यावहन्ति धनक्षयम् ॥ १६ ।। द्वारद्रव्यतुलास्तम्भनागदन्नागवाक्षकः । द्वारमध्यादित रोगकुलपीडावनक्षया(?) ॥ १७ ॥ १. 'कार्य' 4 पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy