SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे द्रव्याणि प्रयतो नित्यं स्थपतिर्विनिवेशयेत् । महावंशस्य नाक्रान्ति कुयाद् द्रव्येण केनचित् ॥ ३३ ॥ इतरेषु पुनर्द्रव्यं मध्यवंशेषु सन्त्यजेत् । महावंशसमाक्रान्तौ भवेत् स्वामिवधो ध्रुवम् ॥ ३४ ॥ वर्षेण तपनाद भीतिं वंशानां पीडनाद् विदुः । उपमर्माणि रोगाय मर्माणि कुलहानये || ३५ ॥ उद्वेगायार्थनाशाय सिराश्च स्युः प्रपीडिताः । कलिः स्यात् सन्धिविद्धेषु पीडितेष्वनुसन्धिषु ॥ ३६॥ तस्मादेतानि सर्वाणि पीडितान्युपलक्षयेत् ॥ ३६ ॥ ज्ञात्वा सिराः सानुसिराच नाडीवंशानुवंशानपि वास्तु | यनेन मर्माणि फलानि चैषां वेधं त्यजेद् यस्तमुपैति नापत् ॥ ३० ॥ इति महाराजाधिराजश्री भोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे नाडीवंशानुवंशानां सिरानुसिरामर्मानुमर्मवेधविकल्पो नाम द्वादशोऽध्यायः ॥ G દ अथ मर्मवेधस्त्रयोदशोऽध्यायः । एकाशीतिपदो यः स्यात् तथा शतपथ यः । चतुःषष्टिपदो यश्व वास्तुरत त्रिधोदितः ॥ १ ॥ यद् येन विभजेत् तेषु तदिदानीं मचक्ष्महे । यानि मर्माणि चैतेषां कथ्यन्त इह तान्यपि ॥ २ ॥ वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् । एकाशीतिपदेनेन्द्रस्थानं च विभजेत् सुधीः ॥ ३ ॥ मासादा विविधास्तद्वद् विचित्राचात्र मण्डपाः । तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥ ४ ॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy