________________
माड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः । व्यश्रे षडश्रे चाष्टाश्रे षोडशा) च वृत्तवत् । वृत्तायतेऽधेचन्द्रे च वास्तो पदविभाजनम् ।। २० ॥ एक एव पुमानेषु बहुधा परिकल्पितः । सर्वस्मिन्नपि संस्थाने विभक्त लक्षयेत् ततः ॥ २१ ॥ शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत् । मुखं मूधो ततः श्रोते रक्ताल्चोष्टरदाः क्रमात् ॥ २२ ।। वक्षः कण्ठः स्तनौ नाभिर्मेद्रमुष्कावथो गुदम् । बाहू प्रवाहू पाणी स्फिगूरुज पदद्वयम् ।। २३ ।। कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः।। सिरावंशानुवंशाश्व सन्धयः सानुसन्धयः ॥ २४ ॥ मर्माण्यथ महावंशा लक्ष्या वास्तुशरीरगाः । सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥ २५ ॥ पदस्य षोडशो भागस्तत्पमाणं प्रकीर्तितम् । महावंशी माक्मतीच्यौ याम्योदीच्यौ च मध्यगौ ॥ २६ ॥ प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः । वंशास्तेऽस्मिन् समुदिष्टा रेखा याः स्युर्मुखायताः ॥ २७ ।। यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः । सम्पाता ये स्युरेतेषां मर्म तत् संप्रचक्षते ।। २८ ॥ उपमर्माणि तान्याहुः पदमध्यानि यानि हि । भागोऽष्टमोऽथ दशमो द्वादशः पोडशोऽपिच ॥ २९ ॥ पदतो मानमिष्टं स्याद् वंशादीनामनुक्रमात् । वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥ ३० ॥ ये पुनः स्युस्तदङ्गानां प्रोक्तास् चानुसन्धयः । वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥ ३१ ।। तदर्धमनुसन्धीनां प्रमाणं समुदीरितम् । यत्नेनैतानि सन्त्यज्य वास्तुविद्याविशारदः ॥ ३२ ॥ १. ', २. *णा 'क. पाटः !
"Aho Shrut Gyanam"