SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे चरकान्ता जयन्ताद्या ये बाह्यस्थितयोऽमराः । भोगोsपदिकस्तेषां षोडशानामपि स्मृतः ॥ ७ ॥ चतुरश्रीकृते क्षेत्रे त्रयस्त्रिंशद्विभाजिते । अन्त्यपङ्क्तिद्वयं सार्धं चरक्याद्यर्थमुत्सृजेत् ॥ ८ ॥ अन्तरे वीथिकामर्धपदिकामुत्सृजेत् ततः । मध्ये तु सप्तविंशत्या भागैर्वास्तु विभाजयेत् ॥ ९ ॥ एकोनत्रिंशता युक्तं पदानां शतसप्तकम् । यद् भवेत् तत्र गर्भे स्यादेकाशीतिपदः स्वभूः ॥ १० ॥ अष्टादशपदाचाष्टौ चापप्रभृतयः पृथक् । अर्यमाद्यं चतुःपञ्चाशत्पदं स्याच्चतुष्टयम् ॥ ११ ॥ fararस्त्वदित्या ह्या नवपदाः सुराः । देशानां सन्निवेशेऽसौ साहस्रो वास्तुरुच्यते ॥ १२ ॥ अथोच्यते वृत्तवास्तुर्वृत्तप्रासादहेतवे । एक चतुःषष्टिपदभागः शतपदोऽयैरः ॥ १३ ॥ अष्टधा भाजते वृत्तविष्कम्भे भागिकान्तरान् । चतुरः परिधीन् कुर्यान्मध्यवृत्तं द्विभागिकम् ॥ १४ ॥ स्याद्वहिर्वृत्तवलयमष्टाविंशतिभागिकम् । तदन्तर्वृत्तबलयमष्टाष्टांशोज्झितं क्रमात् ।। १५ । एवं कृते भवेन्मध्ये ब्रह्मणस्तच्चतुष्पदम् । इत्थं चतुःषष्टिपदो वृत्तवास्तुरुदाहृतः ।। १६ ।। दशधा भाजिते त्तविष्कम्भे भागिकान्तराः । कार्याः परिधयः पञ्च मध्ये वृत्तं द्विभागिकम् ॥ १७ ॥ बहिस्थं वलयं तस्य भजेत् षट्त्रिंशता ततः । शेषं चतुःषष्टिपदस्थित्या स्याच्छतवास्तुनि ॥ १८ ॥ देवतापसङ्क्षिप्तिरनयोश्चतुरश्रवत् । एवं कार्यवशात् कार्या वास्तवोऽन्येऽपि धीमता ॥ १९ ॥ १. ' न्ते पङ्क्तित्रयं क. पाठ: । २. 'स्तयोः श' ३ ' त्तरः ' ख. पाठः । ४. 'वृत्तविष्कम्भे विभक्त भा' ५. रात्, ६. ' स्याद्वृत्तवा' क, पाठः "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy