________________
५२
समराङ्गणसूत्रधारे
द्विरष्टगुणितं मध्ये पदमेकं पितामहः । भुङ्क्ते शतपदे वास्तौ चतुर्गुणितमर्थमा || १६ || faaradise मित्रस्य तद्वच्च पृथिवीभृतः । भोगमिच्छन्ति वै तेषामर्यम्ण इव सूरयः ॥ १७ ॥
सवित्राद्यापवत्सान्ता ये च नोक्ताः सुरोत्तमाः । यथैकाशीति तद्वत् तेषां भोगः पदाष्टकम् ॥ १८ ॥ अग्न्यन्तरिक्षपवना मृगश्च पितरोऽपिच । रोगोऽदितिस्तथाध्यर्धपदभाजो वहिः स्थिताः ॥ १९ ॥
चतुर्विंशतिरुक्ता ये पर्जन्याद्याः सुरोत्तमाः । अदित्यन्ता द्विपदिकास्ते शेषं प्राक् प्रसाधितम् ॥ २० ॥ चतुरश्रीकृते क्षेत्रे पूर्ववद भाजितेऽष्टभिः । चतुः षष्टिपदो वास्तुचतुःषष्ट्या पदैर्भवेत् ॥ २१ ॥ अस्मिन् पदानि चत्वारि भुनक्त्यन्तः पितामहः । अर्यमाद्याः सुरावात द्वे द्वे मध्यगताः पदे || २२ || Harsgadish ये स्थिताः कर्णेषु चाष्टसु । ये देवाः सर्व एवात्र ते पदार्थभुजः स्मृताः ॥ २३ ॥ पर्जन्योऽथ भृशः पूषा भृङ्गदौवारिकौ तथा । शोषनागादितिप्रान्ताः स्युरध्यर्धपदस्पृशः २४ || जयन्तादिषु । बाह्येषु चरकान्तेषु कीर्तिता । प्रत्येकं षोडशस्वत्र सुरेषु द्विपदस्थितिः ॥ २५ ॥ सिरां वपदादूर्ध्वं नयेत् पितृपदान्ततः । बाह्याशा निर्गतां चैनां रोगनामानमानयेत् || २६ || द्विनान्नः प्रापयेद् भृङ्गं भृङ्गात् सुग्रीवमानयेत् । ततोऽदितिं तां गमयेद् द्विनामानं प्रवेशयेत् ॥ २७ ॥ १. ‘रः क्षयः । ', २. 'स्तै: ' क. पाठ: । ३. 'द्विनामादि' ख. पाठः । 'द्विनामादिष्विति पाठे द्विनामशब्दो जयन्तपर्यायः ।
"Aho Shrut Gyanam"