SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ वास्तुत्रयविभागो नामैकादशोऽध्यायः । ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः । नैर्ऋते पदिको कर्णे जयेन्द्रौ कथितावुभौ ॥ ३ ॥ पदपदः स्यात ततो मित्रः काष्ठायां पत्युरम्भसः । कर्णेऽपरोचरे यक्ष्मा रुद्रश्च पदिकावुभौ ॥४॥ पद्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः । आपस्तंथांपवत्सश्च पदिकावीशदिग्गतौ ॥ ५ ॥ इत्यन्तःसंश्रया देवाः प्रोक्ता ब्रूमो बहिःस्थितान् । ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ॥ ६॥ अग्निस्तदनु पर्जन्यो जयन्तश्चेन्द्र एव च । रविः सत्यो भृशश्चेति नभस्तस्मात् ततोऽनिलः ॥ ७ ॥ पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ । गन्धर्वो भृङ्गराजश्च मृगः पितृमणस्ततः ॥ ८ ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलेश्वरः । असुरः शोषनामा च पापयक्ष्मा ततः परम् ॥ ९ ॥ रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च । चरकोऽथादितिदैत्यमातति पददेवताः ॥१०॥ वह्नयोः पितृणां च व्याधेश्चैव क्रमाद् बहिः । चरकी च चिदारी च पूतना पापराक्षसी ॥ ११ ।। पदभोगोऽस्ति नैतासां स्थानमेव हि केवलम् । पदभोगमथ ब्रूमो वहिःस्थानां नभःसदाम् ॥ १२ ॥ तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च । वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादिनिः ॥ १३ ॥ एभ्यः शेषा बहिर्ये तु ते स्युः पदमुजः सुराः । एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः ॥ १४ ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । भवेच्छतपदो वास्तुबूंमोऽत्राप्यमरस्थितिम् ॥ १५ ॥ १. 'ईशस्त ' ख. पाठः । २. (जलो द्विपः ?) जलाधिपः । क. पाटः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy