________________
समराङ्गणसूत्रधारे पूर्वामरेषु सर्वेषु पीडितेष्वमरालयैः । अन्यैस्तल्लिङ्गिनां पीडा चैत्यैर्वा चैत्यपीडितैः ॥ १४२ ॥ हीनाधिकप्रमाणेषु दुर्निविष्टेषु धामसु । कर्तुः कारयितुः पीडा स्याम्न पूजा तथास्य च ॥ १४३ ॥ नैवातिसंभृतं कुर्यात् स्वल्पमल्पामरालयम् । पुरं चानाश्रितं कुर्याद् वेधभागाश्रितं नच ।। १४४ ॥ ज्येष्ठमध्यकनिष्ठानि नवपत्रिपदान्तरे । सुरवेश्मानि कुर्वीत दोपायापरथा पुनः ।। १४५ ॥ कथितोऽयं विधिः स्वैः स्वस्त्रिदशानां निवेशने । बहिर्निवेशनात् स्वेच्छं विदध्यादमरालयम् ॥ १४६॥ नगरेपु समग्रेषु ग्रामेपु निखिलेषु च । खेटकेषु च सर्वेपु सामान्योऽयं विधिः स्मृतः ।। १४७ ॥ इत्युक्त एष नगरोपगतः सुराणां स्वस्वप्रभागविहितः पदसनिवेशः । मो विभागमधुना गृहदेवतानां सम्यक् शुभाशुभफलपविभागयुक्तम् ॥ १४८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
पुरनिवेशो दशमोऽध्यायः ॥
अथ वास्तुत्रयविभागो नामैकादशोऽध्यायः ।
चतुरश्रीकृते क्षेत्रे विभक्त नवधा ततः । मध्ये महाद्युतिर्ब्रह्मा विधेयो नवभिः पदैः ॥ १॥ तस्मादनन्तरं प्राच्यां षट्पदः कीर्तितोऽर्यमा । आग्नेयकणे सवितृसावित्री पदिकावुभौ ॥ २ ॥ १. 'धुरं दानानि' ख, पाठः !
"Aho Shrut Gyanam"