________________
पुरनिवेशो दशमोऽध्यायः । विधानं यद् यथा प्रोक्तं सुरधाम्नां पुराद बहिः ।। तत् तथाभ्यन्तरेऽपि स्यात् कार्य स्वस्वदिगाश्रयम् ॥ १२९ ॥ मध्ये पुरस्य कर्तव्यं गृहमम्भोजजन्मनः । निवेशनं तथेन्द्रस्य तथैव हलिकृष्णयोः ॥ १३० ॥ मातृयक्षगणाधीशान् शिवकान् भूतसङ्घकान् । विनापि वेश्मभिः कुर्यात् पुरे चत्वरमार्गगान् ॥ १३१ ॥ राज्ञा वर्णाश्रमकलापण्यशिल्पोपजीविनः। स्वदिक्पदस्थाः कर्तव्यास्ते देवाचेच्छता श्रियम् ॥ १३२ ॥ प्रासादे सति भक्तीच्छाशक्तियुक्तो यदापरम् । मासादं कारयेत् पूर्वं न तदा पीडयेत् सुधीः ॥ १३३ ॥ प्रतिवेश्म प्रतिग्रामं प्रतिदेवकुलं तथा । कुर्यात् प्रतिपुरं चापि न प्राङ्मानगुणाधिकम् ॥ १३४ ॥ पूर्वमासादतो रुद्रसोमयोर्ब्रह्मणोऽथवा । प्रासादे विहितेऽन्यस्मिन् भवेत् पीडाग्रजन्मनाम् ॥ १३५॥ कृते धान्यधिकेऽन्यस्मिन् वद्रेर्वाचस्पतरुत । पुरोधसां भयं विद्याद् ध्रुवं ज्योतिर्विदां तथा ॥ १३६ ॥ धनाधिपामराधीशयमानां वरुणस्य वा। अधिक विहिते धान्नि भयं विद्यान्महीपतेः ॥ १३७ ॥ स्कन्दधान्नोऽधिकेऽन्यस्मिन् विहिते तस्य वेश्मनि । सेनापतेर्बलानां च पीडा सञ्जायते ध्रुवम् ॥ १३८ ॥ प्रजापतेरभ्यधिकं हरेान्यत् कृतं गृहम् । क: कारयितुश्च स्याद् बन्धाय च विनष्टये ॥ १३९ ।। गणेशयक्षफणिनामधिकोऽन्यः कृतो यदि । प्रासादः स्यात् तदा नित्यं सेनाङ्गानां महद्भयम् ॥ १४० ॥ स्त्रीनाम्न्यो देवतास्तासां पीड्यन्ते यदि वेश्मभिः। मुख्यानां पुरनारीणां तदा कुर्वन्त्युपद्रवम् ॥ १४१ ॥ १. 'संहकान्', २. 'याथ वि' ख, पाठः ।
"Aho Shrut Gyanam"