________________
समराङ्गणसूत्रधारे विष्णोदिनाधिनाथस्य सहस्रनयनस्य च । धर्मस्य च विधातव्यं दिशि प्राच्यां निकेतनम् ।। ११५ ॥ सनत्कुमारसावित्र्योर्मरुतां मारुतस्य च । पूर्वदक्षिणदिग्भागे विदर्भात निकेतनम् ॥ ११६ ॥ गणेशमातृभूतानां याम्ये प्रेतपतेहम् ।। भद्रकाल्याः पितॄणां स्याद् वेश्म चैत्यं च नैर्ऋते ॥ ११७ ॥ सागरस्य नदीनां च शिल्पिभर्तुः प्रजापतेः । निलयं पश्चिमाशायां विदध्याद् वरुणस्य च ॥ ११८ ॥ फणिनां भवनं कार्यमपरोत्तरदिग्गतम् । शनैश्चरस्य चात्रैव कात्यायन्याश्च मन्दिरम् ॥ ११९ ।। विशाखस्कन्दसोमानां तथा यक्षाधिपस्य च । पृथक्पृथग विधातव्याः प्रासादाः सौम्यदिग्गताः । ॥ १२० ॥ जगद्गरोमहेशस्य श्रियो वर्षोश्च मन्दिरम् । पूर्वोत्तरस्यां ककुभि प्रविधेयं मनोरमम् ।। १२१ ।। नदीनामम्बुधीनां च समन्तानगरस्य च । कान्तारेष्वद्रिषु स्थानं सर्वश्रेष्टमुमापतेः ।। १२२ ।। निवेश्यन्ते स्वदिग्भागेष्वेवं यस्मिन् सुरोत्तमाः । सम्यक्समृद्धिमासाद्य चिरं नन्दति तत्पुरम् ॥ १२३ ॥ . नगरस्य विदूरेऽपि ककुप्सु निखिलास्वपि । बाह्यतोऽभिमुखा देवाः शस्यन्ते न पराङ्मुखाः ।। १२४ ।। क्रियते यदि भूभागे वंशेन स पराङ्मुखः । विधिमेनं तदा तस्मिस्तज्ज्ञः शास्त्रोक्तमाचरेत् ॥ १२५ ॥ तद्वेषवर्णभूषास्त्रवाहनैरन्वितं सुरम् । तद्भित्तौ प्रकटाकारं नगराभिमुखं लिखेत् ॥ १२६ ॥ वैककृतशमीबिल्वैः क्षीरकण्टकिभिमः । उदपानाग्न्यगारेषु स्थान दोषोऽन्तरस्थितैः । ॥ १२७ ॥ अर्चाश्रितेष्वयं प्रोक्तो विधिर्नालेख्यवर्तिषु । कर्तव्याः सर्वतोवक्तास्तस्माचिलगनाः मुराः ॥ १२८ ॥
"Aho Shrut Gyanam"