SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पुरनिवेशो दशमोऽध्यायः। सर्वतोदिशमुद्दिष्टो विभागो नगरे यथा । तथा ग्रामेषु खेटेषु सेनायाश्च निवेशने ।। १०३ ।। नगराभिमुखो कार्यों संपूर्णाङ्गमहोदयौ । द्वारे द्वारे सौम्यमुखी लक्ष्मीवैश्रवणौ शुभौ ।। १०४ । राष्ट्रं खेटमथ ग्रामं पश्यन्तेतपुरं महत् (?) । तत्रारोग्याथेसंसिद्धी प्रजाविजयमादिशेत् ॥ १०५ ।। हंशवन्धवधैर्लोकाः स्युमिथः मूत्रहिंसकाः । ग्रामं रेखटं पुरं राष्ट्रं यदेतो नेव पश्यतः ॥ १०६ ॥ स्थाप्यन्ते ये यथा देवा नगरे सर्वतोदिशम् ।। वाह्यान्तरासु भूमीषु अ॑महे तानतःपरम् ॥ १०७ ॥ चतुर्दिशं समारभ्य प्राकारपरिखान्ततः । बहिः शते शते सार्धे धनुषां द्विशतेऽपिच ॥ १०८ ।। धनुःशतमितेः शुद्धरनिन्द्यैर्धरणीतलैः।। स्वस्वप्रासादयुक्तानि स्वस्त्रानुगगृहैः सह ।। १०९ ।। निवेशनानि कुर्वीत त्रिदशानां यथाक्रमम् । . नगराभिमुखं चित्रवनभाजि शुभानि च ।। ११० ॥ . याम्योत्तरायतं वंशं विकल्पपुरमध्यगम् । वहिरन्तश्च कुर्वीत देवानां विनिवेशनम् ॥ १११ ॥ प्राच्या प्रत्यङ्मुखान् कुर्यात् प्राङ्मुखांचाम्बुभृदिशि । याम्योदक्पार्श्वयोस्तस्य पादक्षिण्येन वंशगान् ॥ ११२॥ दक्षिणस्यां न कुर्वीत त्रिदशानप्युदङ्मुखान् । चैत्यशान्तिसभा यक्षमातप्रथमयान्विताः(१) * ॥ ११३ ।। इत्यमी कथिताः सम्यग ये यथादिङ्मुखाः सुराः । दिक्षु दिक्षु बहिर्ये स्युस्तानिदानी प्रचक्ष्महे ॥ ११४ ॥ १, सहोदरौ।', २. इयन्त्येते पु', ३. प्राग्द' ख. पाठः । ४. 'प्रमथया क. पाटः । 'पश्यतस्तौ पुरं च यत् । इति पठनीयं भाति । * ' प्रमथपान्विताः' इति पठनीय भाति । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy