SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे वैश्यानामक्षधुर्तानां चक्रिकाणां च दक्षिणे । नटानां नर्तकानां च गृहाणि विनिवेशयेत् ॥ ९० ॥ निवेशयेत् सौकरिकान् मे(यी?षी)कारान् मृगच्छिदः । कैवर्तान् नैर्ऋताशायां दमनाधिकृतांस्तथा ॥ ९१ ॥ रथेषु कौशलं येषां येषां स्यादायुधेषु च । । वारुण्यां दिशि तान् सर्वान् पुरस्य विनिवेशयेत् ।। ९२ ।। कर्मस्वधिकृता ये च ये चापि परिकर्मिणः । शौण्डिका ये च तान् सर्वान् वायोर्दिशि निवेशयेत् ॥ ९३ ॥ यतीनामाश्रयान् ब्रह्मवत्सानां च तथा सभाम् । प्रपाश्च पुण्यशालाश्च कुर्याद् दिशि धनेशितुः ॥ ९४ ॥ घृतविक्रयिणो ये च फलविक्रयिणश्च ये । निवेशिताः प्रशस्यन्ते पुरस्येशानदिग्गताः ॥ ९५ ।। पूर्वभागे बलाध्यक्षान् राज्ञो मुख्यांस्तथा बले। निवेशयेत् तथाग्नेय्यां बलं नानाविधं सुधीः ॥ ९६ ।। श्रेष्ठिनो दक्षिणाशायां तथा देशमहत्तरान् ।। याम्येकहारान् (१) कुर्वीत तथा ककुभि नितेः ॥ ९७ ॥ कोशपालमहामात्रादेशिकान् कारुकानपि । नियामकांश्च कुर्वीत सलिलाधिपतेर्दिशि ।। ९८ ॥ वायोः ककुमि कुर्वीत दण्डनाथान् सनायकान् । पुरोहितज्योतिषिकानुत्तरस्यां निवेशयेत् ॥ ९९ ।। विप्राः सौम्या दिशो भागे क्षत्रियाः शक्रदिग्गताः। वैश्यशूद्रास्तु कर्तव्या दक्षिणापरयोः क्रमात् ॥ १०॥ निधेया वणिजो वैद्या मुख्याश्चापि चतुर्दिशम् । चतुर्दिशं विशेषेण स्थापयीत बलानि च ।। १०१ ।। नगरस्य बहिः प्राच्यां लिङ्गस्थान विनिवेशयेत् । श्मशानानि तथा तत्स्थान् याम्यायां स्थपतिः सुधीः ॥ १०२ ॥ १. 'म्य' क. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy