SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पुरनिवेशो दशमोऽध्यायः । चतुःप्रकारं स्थापत्यमष्टधा च चिकित्सितम् । धनुर्वेदश्च सप्ताङ्गो ज्योति कमलालयात् ।। ७७ ॥ सामान्यलक्षणोत्पातनिमित्तानि च सर्वशः ।। ब्रह्मा विष्णुश्च रुद्रश्च त्यजन्त्येते न तत् पुरम् ।। ७८ ।। नगरस्य विभागोऽयं यथावत् समुदीरितः ।। खेटं तदर्धविष्कम्भमाहुामं तदर्धतः ।। ७९ ॥ योजनेन पुरात खेट खेटाद ग्राम प्रचक्षते ।। गव्यतिपरिमाणेन ग्रामाद ग्राम प्रचक्षते ।। ८० ॥ द्विकोशाद विषये सीमा तदन पुरस्य सा । खेटके पुरसीमा ग्रामे खेटार्धतः स्मृता ।। ८१ ॥ त्रिंशद्धनूंषि विष्कम्भः पुरे दिग्वर्त्मसु स्मृतः । विंशतिः खेटके मार्गो ग्रामे दश च दर्शितः ॥ ८२ ।। नव ग्रामसहस्राणि नवति(श्च?ञ्च) प्रचक्षते ।। चतुःषष्टिमपि ग्रामान ज्यायो राष्ट्र विदुर्बुधाः ॥ ८३ ।। दशार्धं च सहस्राणि ग्रामाणां त्रिशती तथा । ग्रामाचतुरशीतिश्च मध्यमं राष्ट्रमीरितम् ॥ ८४ ॥ सहस्रमेकं ग्रामाणां तद्वच्च शतपञ्चकम् । यूना च ग्रामपञ्चाशत् कनीयो राष्ट्रमुच्यते ।। ८५ ॥ अध्यधेसययैतेषां ज्येष्ठमध्यकनीयसाम् । विधाय नवर्धकैकं विभजेद् विधिवत् सुधीः ॥ ८६ ।। राष्ट्रेष्वेवं विभक्तेषु यथाभागं विधानवित् । निवेशयेत् पुराण्येषु सप्त सप्त यथार्गमम् ॥ ८७ ॥ विभागश्च प्रमाणं च लक्षणं चादिमस्य यत् । जातिवणोधिवासश्च यथावत् तदिहोच्यते ।। ८८ ।। सुवर्णकारानाग्नेय्यां तथा वह्नयुपजीविनः । निवेशयेत् कर्मकरानन्यानपि विधानवित् ॥ ८९॥ १. 'तत्र ग्रा', २. 'दश द्वे च ', ३. 'न्यूनाच ग्रा' ख. म. पाठः 17. 'क्रम' क. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy