________________
परि. ७ भू. ५६ ] स्याद्वादरत्नाकरसहितः
११२१ बुद्धचित्तेनानेकान्तात् । हितैषित्वाभावे सतीति विशेषणान्नार्थलघू इति चेत् । न । तस्यासिद्धत्वात् । समानं हि हितैषित्वं खडिसुगतयोरात्मजगद्विषयम् । जगद्विषयहितैषित्वाभावो विशेषणम् । स च खडिनि सिद्ध एवेति चेत् । ननु तथापि न व्यभिचारपरिहारः सुगतस्यापि । कृतकृत्येषु हि .... .... .... ५ भावे वा सुगतस्य यत्किंचनकारित्वम् । प्रवृत्तिनैष्फल्यात् । यत्तु देशतोऽकृतकृत्येषु तस्य हितैषित्वं तत् खजिनोऽपि स्वचित्तेषूत्तरेप्वस्तीति न तद्धितैषित्वाभावः सिद्धः । नापि चरमत्वं विशेषणम् । तस्याप्यसिद्धत्वात्प्रमाणाभावाचरमं निराश्रवं खडिचित्तं स्वोपादेयानारम्भकत्वाद्वर्तिस्नेहादिशून्यदीपादिक्षणवदिति चेत् । नैवम् । १० अन्योन्याश्रयापत्तेः ! सति हि तस्य स्वोपादेयानारम्भकत्वे चरमत्वस्य सिद्धिः । तसिद्धौ च स्वोपादेयानारम्भकत्वसिद्धिरिति । किं चान्यत्क्षणस्यानर्थक्रियाकारितायामवस्तुत्वं स्यात्तदवस्तुत्वे चावस्तुजनकत्वात्तजनकस्यापीत्यायातमशेषस्य चित्तसंतानस्यावस्तुत्वम् । अथ स्वसंतानवर्तिनो योगिज्ञानस्य जननान्नाशेषस्य तत्संतानस्या- १५ वस्तुत्वम् । तदयुक्तम् । रसादेरेककालस्य रूपादेव्यभिचार्यनुमाना. भावानुषङ्गात् । अन्त्यक्षणवद्रूपादेविजयकार्यजनकत्वेऽपि सजातीयकार्यजनकत्वासंभवात् । एकसामग्र्यधीनत्वेन रूपरसयोनियमेन कार्यद्वयारम्भकत्येऽन्यत्रापि कार्यद्वयारम्भकत्वं स्यात् । यो गिज्ञानान्त्यक्षणयोरप्येकसामग्र्यधीनत्वाविशेषात् । अथ स्वसंतानवर्ति .... .... २०
.... .... रो दर्शितः । अथ पिच्छिकाद्यग्रहेऽप्रमार्जितायुए. . वेशनादि संभवतः सूक्ष्मसत्त्वव्यापत्तिसद्भावे प्राणातिपातविरमणाल्यमहाव्रतधारणानुपपत्तेस्तदर्थं तद्ग्रहणं धर्मोपक .... .... ....
इति । तदवद्यम् । आहारपिच्छिकादावप्याखिलस्यास्य समानत्वात् । अपि च-~-ननु मुमुक्षूणां स्त्रीतुरङ्गमातङ्गादेरुपादानं संभवति । तस्य २५ . संयमानुपकारित्वात् , तदुपभोगे प्रभूततरं तदभिलाषभावेन संयमबाघोपप