________________
S
.
प्रमाणनयतत्त्वालोकालङ्कारः [परि. . सू. ५६ किमथ चपला तन्तुर्नृत्यन्नवाम्बुदडम्बरे नहि नहि स्त्रीणां प्रीतिः प्रियं प्रति सर्वथा ॥ ८१५ ॥ फुल्लल्लोचनचारुपङ्कजवती वेणीलताशैवल___ व्याकीर्णो कुचचक्रवाकमिथुनां वल्ग(लीवीचिकाम् । श्रित्वा स्त्रीतटिनीति विद्यथ गुरुर्मोहो जलप्राणिनः संहाँ वितनोति सान्द्रपिशित दन्तच्छदछद्मना ॥ ८१६ ॥ नो यस्मिशतकोटिकोटिकुटिलाकोपात्प्रिया भृकुटिः
क्लेशावेशसमर्थबाह्यविषयापेक्षापि यस्मिन्न हि ॥ नित्यानन्दमयी विमुक्तरमणी सा लभ्यते यदशातत्संतोषसुखं च यस्य सुतरामभ्यस्य सभ्यक्रमा ॥ ८१७ ॥ वैराग्यं त्वयि राग संप्रति मम त्वद्वेष (?) विद्वेष्मि भोः तृष्णेऽत्यन्तवितृष्णता त्वयि बने पैशून्यशून्ये व्रज । अस्माकं शमशीलर्सयमकलासंपर्कपूतात्मनां
त्वत्संस्पर्शविधौ समस्ति नियतं नैवाधिकारक्रमः ।। ८१८ ।। १५ एवं च भावयतो विवेकिनो राज्ययोषाप्रमुखेषु दुःखहेतुषु सुख
लेशसाधनत्वसद्भावेऽप्यन्यदात्यन्तिकसुखसाधनं रत्नत्रयं पश्यतः कुतस्तेष्वात्मीयबुद्धिर्यतस्ततो नैत्तिर्न स्यात् । न त्वात्मीयबुद्धेस्ततः स्यानिवृत्तिः । यद्येकान्तेन तेषां दुःखहेतुत्वं म्यात् । न चैवं लेशतः
सुखहेतुत्वस्याप्यत्र संभवात् । तेन दुःखहेतुत्वेऽपि येनाकारण २० सुखहेतुता तावतांशेन स्वस्योपकारकांस्तान्मन्यमानस्तेषु नात्मीय.
बुद्धिं जहातीति । तदप्यसांप्रतम् । तेषां सुखलेशसाधनत्वेऽप्यन्यस्यात्यन्तिकसुखसाधनस्य सद्भावेन निर्विषान्नस्येव त्यागसंभवात् , तन्न - रागादिवियुक्तज्ञानोत्पत्तिनिःश्रेयसं संगच्छते । नापि ज्ञानसंतानो
च्छेदलक्षणम् । तत्प्रसाधकपमाणाभावात् । ननु खझिनो निराश्रवं २५ चित्तं नोपादेयक्षणमारभते । सहकारिरहितत्वात्तादृग्दीपशिखाव. दित्यनुमानमस्त्येवः तसिद्धिसमृद्धमिति चेत् । नैवम् । अत्र हेतो