________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ७ सू. ५६
___ .... .... ....भ्यासं हि वर्धन्ते विषयाः । कौशलानि चेन्द्रियाणाम् । न च वसुमपि () संयमानुपकारि। तस्य तदुपकारितया प्रोक्तत्वात् । एवं च वस्त्रस्य ग्रन्थत्वासिद्धे रागाद्यपचयनिमित्तनैर्ग्रन्थ्यपरिपन्थित्वं साधनमसिद्धमेवेति नास्मादपि वस्त्रस्य चारित्रबाधकत्वसिद्धिः । नाप्यागमः । प्रतिषिद्धत्वात् । तत्प्रतिषेधे कस्यचिदप्यागमस्याभावात् । स हि भवन् 'किमचीवरास्तीर्थकृतः ' इत्ययमुत जिनकल्पोपदेशो 'जिताचेलपरीषहो मुनिः ' इति वा । न तावदायो विकल्पः । तत्र हि तीर्थकृतामचीवरत्वं कादाचि
स्कमुक्तं शाश्वतिकं वा । यदि कादाचित्कं तदा न किंचिदनुचितम् । १० कदाचिदस्माकमप्यस्याभिमतत्वात् । अथ शाश्वतिकम् । तन्न ।
'सव्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसम्' इति वचनात् । अथ तत्र एगदोसेणेति पाठः । सर्वेऽपि संसारदोषेणैकेन निर्गता इति कृत्वा न त्वेवमव्यवस्था । सर्वत्र सर्वैरपि स्वेच्छया पाठानां
सुकरत्वात् । अथायमेवात्र पाठ इत्यत्र न किंचिद्भवतां प्रमाण१५ मस्ति । न च तथा पुस्तकोपलम्भः, तथागमिकाम्नायो वाऽत्र प्रमा
णम् । अस्य सार्वत्रिकस्यासिद्धत्वात् । प्रादेशिकस्य पुनरितरत्रापि सद्भावादिति चेत् , नन्वेवम् ' अचीवरास्तीर्थकृतः ' इत्यत्रापि पाठे किं प्रमाणं तव स्यात् । तथा च कदाचित्----अचीवरास्तीर्थकृत इत्यागमनिर्णयात्कथमतो वस्त्राभावो निष्प्रत्यूहः प्रसाध्येत । किंच तीर्थकृतामचीवरत्ववचने तेषामेव तद्धर्मानुपकारीति निश्चयोऽस्तु । नापरेषाम् । न हि यत्तीर्थनाथेषु भगवत्सु दृष्टम् । तदखिलमस्मादृशेष्वपि परिकल्पनीयम् । .... ... .. ..." यथावच्छद्मस्थावस्थायां परोपदेशं दीक्षां वा
.... .... विवेचनीयः । अथापुण्यपरमप्रकर्ष एव हेतु२५ त्वेन विवक्षितो न परमप्रकर्षमात्रं तर्हि विशेषणं वा .... ....
तत्त्वात्पुरुषेभ्यो हीनत्वमपि पुरुषेभ्योऽपकृष्यमाणत्वमेव । तच्च यथा