________________
....
....
२११८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ७ सू. ५६ हन्तैवमपि न तदेकरूपं चित्रशक्तिकस्य कर्मणः क्षयायालम् । अतिप्रसंगादेव । अथ तपःकर्मशक्तीनां संकरेण क्षयकरणशीलमित्येक रूपादपि तपसश्चित्रशक्तिकस्य कर्मणः क्षयः । नन्वेवं स्वल्पक्लेशेनैकोप
वासादिना स्तोकेऽपि कर्मणि क्षीणे सर्वस्य तस्य क्षयापत्तिः । उक्तं ५ च-'कर्मक्षयाद्विमोक्षः स च तपसस्तच कायसंतापः ।
.... गिनां चैत्र । अन्यदपि चैकरूपं तच्चित्रक्षयनिबन्धनं न स्यात् । तच्छक्तिसंकरक्षयकारीत्यपि वचनमात्रं तु ।
अक्लेशात् स्तोकेऽपि क्षीणे सर्वक्षयप्रसंगो यत् ' ॥ इति । १० तदखिलमलीकम् । तत्र भवत्प्रतिपादिततपःस्व ..... ....
.... .... क्षयहेतुर्विशिष्टावबोधकारणं परमपदासंतता (?) कर्तृदैन्यौत्सुक्यवर्जितं पारमार्थिकसुखवृतिमहासत्त्वसेवितं सदानुष्ठानहेतुः शुभा..... .... त्वात्स्यात् । यदि परमार्थसंस्तदात्मैव नामान्तरेणोक्तः स्यात् । अथ संवृतिसंस्तदैकस्य परमार्थसतोऽसत्त्वादन्यो बद्धोऽन्यश्च मुच्यत इत्यायातम् । तथाच बुद्धस्य मुक्त्यर्थं प्रवृत्तिर्न स्यात् । अथात्यन्तना तात्वेऽपि क्षणानां दृढतररूपतयैकत्वाध्यवसायाद्वन्द्वमात्मानं मोचयिष्यामीत्यभिधाय प्रवर्तते कथमेवं नैरात्म्यदर्शनं यतस्तद्भावनाभ्यासाद्रागादिवियोगः
स्यात् । अथ शास्त्रसंस्कारप्रभवं तद्दर्शनमस्ति । न तर्षकत्वाध्यवसा२० योऽस्खलद्रूप इत्येकं संघित्सोरन्यत्प्रच्यवते । अतः कुतो बद्धस्य मुक्त्यर्थ
प्रवृत्तिः स्यात् । यतूक्तम् –' अन्यथा भावनायां चात्मनि स्थैर्यादिगुण. दर्शननिमित्त: स्नेहोऽवश्यंभावी' इत्यादि तदुपपन्नमेव । किन्त्वन्यो जनो दुःखाननुषक्तसुखसाधनमपश्यन्नात्मस्नेहात्सांसारिकेषु दुःवा
नुषक्तसुखसाधनेषु प्रवर्तते । हिताहितविवेकज्ञस्तु तादात्विकसुखं २५ योषादिकं परित्यज्यात्मस्नेहादात्यन्तिकसुखसाधने मुक्तिमार्गे प्रवर्तते ।
यथा पथ्यापथ्यविवेकमजाननातुरस्तात्त्विकसुखसाधनं व्याधिविवृद्धि