________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ७ सू. ५६ नाहः । स्वसंवेदनस्य ज्ञानरूपपरामर्शमात्रपर्याप्तत्वेनानन्द इति कथं प्रेक्षाकारिणामयमुपादेयः स्यात् । निःश्रेयसप्रत्यक्ष तथाभूतं तद्वेतीति तु तवोक्तिबधिरस्य परानुवादमनुकरोति । न खलु भवानद्यापि तत्स्वरूपग्राहकप्रमाणे विवादपकममे तत्प्रतिपत्तुमर्हति । तन्न प्रत्यक्षं तथाभूतसुखग्राहकम् । नाप्यनुमानम् । तदनादिनिधननित्यैकरूपत्वाविनाभाविनः कस्यचिल्लिङ्गस्यासंभवात् । नाप्यागमः तथाविधसुखप्रतिपादकस्य तस्याप्यप्रतीतः । अस्तु वा · यत्किचित्तग्राहकं तथापि तन्नित्यमनित्यं वा । न तावदनित्यम् । यतः कुतोऽ.
स्योत्पत्तिः स्यादनित्यस्यानुत्पत्तिधर्मकत्वानुपपत्तेः । इन्द्रियादिभ्यश्च १० तदुत्पत्त्यभ्युपगमे सुखविषयत्वं न प्राप्नोतीत्युक्तमनन्तरमेव । अथ योग
जधर्मानुगृहीत आत्ममनःसंयोग एव तज्जनकः 1. ननु योगजधर्मस्य मुक्तावसंभवात्कथमसौ तत्संयोगेनापेक्ष्येत् । यतस्तत्र ततस्तदुत्पत्तिः स्यात् । अथाद्य ज्ञानं योगजधर्मापेक्षस्तत्संयोगो जनयति
तच्चापेक्ष्योत्तरोत्तरं ज्ञानमसौ जनयतीति । तदप्यसांप्रतम् । अपसि. १५ द्धान्तप्रसंगात् । शरीरसंबन्धापेक्षस्यैव ज्ञानस्य ज्ञानान्तरोत्पत्तौ वत्कृ.
तान्ते सहकारिकारणत्वोपवर्णनात् । अथ नित्यं तत्तदा मुक्तेतरावस्थयोरविशेषप्रसंगः । सुखतसंवेदनयोरनादिनिबन्धननित्यैकरूपत्वे. नोभयत्र सद्भावाविशेषात् । वैषयिकसुखेन चास्य संसारावस्थायां
साहचर्यानुभवप्रसंगात्सुखद्वयोपलम्भः स्यात् । प्रतिबद्धत्वात्तदा २० तस्यानुपलम्भ इति चेत् । केनास्य प्रतिबद्भवं शरीरेणाविद्यया वैषयि.
कसुखाद्यनुभवेन बाह्यविषयव्यासंगेन वा । अमीभिश्चतुर्भिरपि विकल्पचतुष्टयोक्तैः पदार्थैर्न सुखस्य तदनुभवस्य वा प्रतिबन्धो विनाशल. क्षणोऽनुत्पत्तिस्वरूपो वा कर्तुं शक्यः । तयोर्द्वयोरपि नित्यत्वाभ्युपग
मात् । यत्तु कथं शरीरेण तत्प्रतिबन्धः साधीयांस्तस्योपभोगार्थत्वात् । २५ न हि यद्यदर्थं तत्तस्यैव प्रतिबन्धकं युक्तिमदतिप्रसंगादिति केनापि
शरीरप्रतिबन्धकत्वापराकरणमुच्यते । तन्न, संगच्छते । वैषयिकसु.