________________
परि. . सू. ५६ ] स्याद्वादरत्नाकरसहितः इत्याद्यागमो बाधितत्वात्तदाभास एवेत्यवगन्तव्यम् । यत्तु जयन्तो जगाद
'अर्हत्पक्षेऽपि यद्रूपमन्यसापेक्षमात्मनः ।
न केवलस्य तद्रूपमित्यस्मन्मततुल्यता ॥ ' इति । तदप्यस्मन्मतापरिज्ञानविजम्भितम् । अन्यानपेक्षत्वेनात्मरूपयोरनन्ता. ५ नन्तज्ञानप्रवाहयोरस्मन्मते मोक्षेऽवस्थानात् । यच्चोक्तमनेनैव-- 'विकारित्वं तु जीवानामत्यन्तमसमञ्जसम् । शब्दपुद्गलवचैतत्प्रत्याख्येयमसंभवात् ॥ तद्विकारित्वं न जीवानां न कथंचिदसमञ्जसम् ।
शब्दपुद्गलवचैतत्समाख्येयं सुयुक्तिभिः ।।' इत्यनेन प्रतिविहितम् !
जडत्वमात्मन्यवधीर्य धैर्याद्यथोदितानन्दचिदात्मकं तत् । मोक्षस्वरूपं परिकल्पनीयं परैः परित्यज्य कुमार्गमार्गम् ॥८१२॥
ब्रह्मवादिनस्तु वदन्ति-- 'आत्मनः परमानन्दस्वरूपेऽवस्थानं १५. मोक्षः' इति । एतेऽस्मदनुजीविन एव तत्त्वत इति स्खलिता अपि कापि किंचिदभ्युद्धरणीया एव तपस्विनः । तथा हि-स्खलितमिदममीषामनादिनिधनं नित्यैकरूपं तत्सुखमित्यप्रयासापसारणीयं चेत् । तत्प्र. साधकप्रमाणाभावात् । तथा हि-तस्य ग्राहकं प्रत्यक्षमनुमानमागमो वा स्यात् । प्रत्यक्षं चेत् किमन्द्रियं मानसं स्वसंवेदनं नैःश्रेयसं वा । २०. तत्राद्यविकल्पो न पेशलः । इन्द्रियाणां प्रतिनियतरूपादिगोचरचारितया तत्प्रभवप्रत्यक्षस्य ततोऽन्यत्र प्रवृत्त्यनुपपत्तेः । द्वितीयविकल्पोऽप्यनुपपन्नः । न हि मानसप्रत्यक्षेऽनवच्छिन्नदेशकालकलापमनादि. निधनं नित्यैकरूपं सुखं कदाचिदनुभवामः । तृतीयकल्पोऽप्यकल्प.
न्या. म. पृ. ५१२ पं. २५.२ न्या. म. पृ. ५१२ पं. २७ ।