________________
माणनयतत्त्वालोकालङ्कारः परि. . सु. ५६ कदुःखसंदोहस्यात्यन्तमुत्थितिमै स्यादिति हि तत्रापि प्रवृत्तिः संभाव्यते । अथ स्वर्गे तावदागपूर्विका प्रवृत्तिः प्रेक्षितचरीति तदतिशायिप्रीतावपवर्गे तदतिशायिरागपूर्विकैव प्रवृत्तिः संभाव्यत इति चेत् ।
नैवम् । रागातिशयस्य विषयातिशयहेतुकत्वासंभवात् । जरत्कपर्दक५ शकलमात्रेऽपि केषांचिन्मूषकादीनां प्राणापहारपर्यन्तस्य रागस्य, दर्शनात् । अपरेषां तु केषांचिन्महात्मनां निःशेषनम्रसामन्तमौलिमालाललिताङ्घ्रिसरोरुहे साम्राज्येऽप्यवज्ञाविलोकनात् । अपि च । एवं निःशेषदुःखमये संसारेऽपि द्वेषातिशयः किं न स्यान्मशकमत्कुण
दंशदंशावेशसमुत्थे दुःखे स्तोकस्य विकट कुटिपुटोट्टङ्कितललाटपट्टक१. प्रत्यर्थिमुक्तकृपाणप्रहारप्रभवे तदतिरिक्तस्य च द्वेषस्य दर्शनात् । यथा
तु कस्यचिन्महात्मनो न तत्र द्वेषमात्रापि तथा सुखे न रागमात्रापीति कुतस्तादृशि मोक्षे रागः स्यात् । ततः सिद्धं निःशेषकर्मक्षयान्मोक्षे परमानन्दसंवेदनस्वभाव आत्मा च तिष्ठते न तु जंडरूप इति ।
भूषणोऽपि मोक्षे सुखतत्संवेदनसनाथमात्मानमातिष्ठमानोऽस्मद्नुचर १५ एव । अनादितां तु तयोरुपेयमानो मुक्तिसंसारावस्थयोर
विशेषप्रसंगेन परमाणुद्यतो (?) यत्युनरविशेषप्रसंगपरिहारायोवाच-.: नं चक्षुर्घटयोः कुड्यादेरिव सुखसंवेदनयोविषयविषयिसंबन्धप्रत्यनीकस्याधर्मसुखादेः संसारावस्थायां सद्भावात्तन्नाशे च मुक्त्यवस्थायां भवति सुखसंवेदनयोः संबन्धः । कुड्यादिनाशे चक्षुर्घटसंवन्धवदिति । ' तदप्यसंवद्धम् । विषयपरामर्शमन्तरेण ज्ञानस्वरूपस्यैवासंभवात् । घटोऽयं पटोऽयमित्यादि गोचरावधारणमेव हि तस्य स्वरूपम् । तदभाव किमन्यदवतिष्ठेत । एवं संसारावस्थायां सुखसंवेदनस्यापि सुखस्वरूपगोचर
परामर्शमन्तरेण संवेदनरूपत्वमेव न भवेत् । एवं च दुःखाभावस्वभा२५ वस्य मोक्षस्य प्रतिक्षेपात्सुखसंवेदनरूपस्य च साधनात् ' न ह वै "
- १ आचार्यभासर्वज्ञः । न्यायसारे आगमपरिच्छेदे पृ. ४० पं. १६.