________________
परि. ७ सू. ५६] स्याद्वादरस्नाकरसहितः नाप्यागमः । प्रतिषिद्धत्वात् । तत्प्रतिषेधाद्यस्य कस्यचिदप्यागमस्थाभावात् । स हि भवन् किमचीवरास्तीर्थकृत इत्ययमुताजेनकत्योपदेशो (१) जिताचेलपरीषहो मुनिरिति वा । न तावदाद्यो विकल्पः । -तत्र हि तीर्थकृतामचीवरत्वं कादाचित्कमुक्तं शाश्वतिकं वा । यदि कादाचित्कं तदा पर्यायपरम्परापरिहाण्या तदनुकारिण्याः परापरपर्याय- . ५ परम्परायाः समुत्पादात् । न च संसारित्वपर्यायस्याप्युत्पादः प्राप्नोति । तत्कारणस्य कर्मणः सहकारिणः सकलस्य प्रलयात् । एवं च तथाविपर्यायप्रवाहात्मकात्मरूपतयाऽयमनन्त एवेति कथं न पुरुषार्थः स्यात् । अथ मोक्षेऽनन्तं सुखं यदि म्यातदा तद्रागेण प्रयतमानो मुमुक्षुन मोक्षमधिगच्छेत् । न हि रागिणां मोक्षोऽस्तीति मोक्षविद- १० स्तम्य बन्धनात्मकत्वात् । तदयुक्तम् । यो हि सुखसाधनेषु शब्दादिविषयेष्वमिष्वङ्गः सरागो बन्धनात्मकस्तस्य विषयार्जनरक्षणादिप्रवृत्तिद्वारेण संसारहेतुत्वात् । अनन्ते तु सुखे यद्यपि रागस्तस्याप्यसौ सर्वविषयार्जनादिनिवृत्तिमोक्षोपायप्रवृत्त्योरेव हेतुः । अन्यथा तस्य सुखस्य प्राप्तुमशक्यत्वात् । न हि तद्विषयसाध्यं नापि तत्क्षी- १५ यते येन विषयसुखार्थमित्र पुनः पुनस्तदर्थ हिंसादिप्वपि प्रवर्तेत । तन्न बन्धहेतुर्मुमुक्षारस्ति रागः । स्पृहामात्ररूपोऽपि चासौ परां कोटिमारूढम्यास्य निवर्तते । 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसतमः ' इति वचनात् । अन्यथा दुःखनिवृत्यात्मकेऽपि मोक्षे प्रयतमानस्य दुःखद्वेष कषायकालुप्यं किं न स्यात् । अथ नास्त्येव २० मुमुक्षोषः । रागद्वेषौ हि संसारकारणमिति च जानाति मुमुक्षुद्वेष्टि च दुःखमिति कथमिदं संगच्छेतेति चेत् । तदितरत्रापि तुल्यम् । अथ मोक्षसुवेऽभिप्वङ्गाभावे प्रवृत्तिरेव न भवेदतः कथमेकान्तिकात्यन्तिका. नन्दसंपदस्येदं मोक्षमहं साधयिष्यामीति हि तत्र पुंसः प्रवृत्तिः संभाव्यते । तदप्यन्यत्र समानमेव । सांसारिकदुःखे द्वेषाभावे तज्जिहासा- २५ नुपपत्तेः । आः कथमेषां नानाविधाधिव्याधिप्रबन्धसंबन्धादिसांसारि