________________
प्रमाणनयतस्वालोकालङ्कारः परि. ७ सू. ५६ व्यभिचारिणी । हन्त तर्हि तदेव तात्त्विकं ज्ञानं यत्स्वकीयकार्याव्यभिचारीति कथं स्त्रीभक्ष्यभोगज्ञ इत्युपालम्भः शोभेत । ततः कार्यमर्जयन्ती यथा निश्चयनयेन क्रिया क्रियोच्यते तथा ज्ञानमपीति ।।
कचिद्व्यभिचाराभावाद् द्वयमेवैतत्फलोत्पत्तौ कारणमनुगुणम् । ५ यच्चाजल्पि-~-' या तु क्रियायाः सम्यग्ज्ञानापेक्षा' इत्यादि तत्र
मा भूत्सम्यक्रियोत्पादकसम्यग्ज्ञानम्य फलोत्पत्तौ प्राधान्यं व्यवधानात् । क्रियाकाले तु यत्सम्यग्ज्ञानं तत् फलोत्पादाय कल्पिष्यते । ननु जलं जलत्वेनानवबुध्यमानमपि पीयमानं नालि.
केरद्वीपवासिनं धिनोतीति कथं सम्यग्ज्ञानस्य तत्कारणतेति १. चेत् । मा भन्नाम जलावबोधः । न हि तद्बोधस्तन्निबन्धनम
भिदध्महे किन्तु शीतस्पर्शादिवेदनमिति कथं न बोधोऽपि तत्का. रणं स्यात् । यापि शुचिरोचिरित्यादिना मतिमतामपि सेवादिक्रियाप्राधान्येनैव फलावाप्तिरुक्ता साप्ययुक्ता । एवमपि क्रियैकान्ता
संगतेविमलकेवलालोकविलोकितलोकालोकोऽयं भगवानियेतावतैव रम१५ सभरोद्भवत्प्रभूतपुलकाङ्कुरकोटिसङ्कटविसंकटायष्टिभिः प्रकृष्टाष्टमहा.
प्रातिहार्यप्रमुखपूजनीया मनुजदनुजनिर्जरेन्द्रचन्द्रैः पूज्यते न पुनः क्रियावशादित्यपि वक्तुं शक्यत्वात् । अथास्त्येव तत्रापि कलत्कणद्वेगुवीणानुगामिमञ्जुगुञ्जन्मृदङ्गसंगिनं तुम्बुरुनिकुरुम्बप्रपञ्च्यमानपञ्चमोदा
श्सारसंगीतकप्रबन्धमधरयन्त्यायोजनप्रमाणपृथिवीप्रदेशे च प्रसरन्त्या २० पाचो व्यापारः । स एव च तथाविधपूजादिफलहेतुरिति चेत् । एवं
तहि सेवादावप्यस्त्येव सभासभापतिपरिज्ञानमिति तदेव तत्फलोत्पत्तिहेतुः किं न स्यात् । अथैवं दृष्टावाधासेवकत्वेनैव नृपतिनास्य फलदानदर्शनात, अन्यत्रापि किं नासौ स्यात् । केवलज्ञानवानयमित्ये
तावतैव तैस्तत्पूजाविधानस्य विलोकनात् । तस्मात्तत्त्वं चेत् पृच्छसि २५ तदा द्वयमप्येतत् कारणं किंतु कचित् किंचित् प्राचुर्येण व्यापिपर्ति
कचित्तुभयमपि तुल्यकक्षतयेति न क्रियैकान्तः । यच्चोक्तम् ‘केवलो