________________
परि. ७ सू. ५६] स्यावावरत्नाकरसहितः स्पतावपि ' इत्यादि तदप्ययुक्तम् । केवलस्यापि शैलेशीवशायाः कारणत्यानपायात् । ततः सुबोधक्रिययोः संयोगात् पुस्त्रियोरिव जायते.... .... .... .... .... .... .... .... .... .... .... .... क्षयलक्षणस्य तल्लक्षणस्य सद्भावात् । न चेदमव्यापकम् । सकलमुक्तेषु सद्भावात् । नाप्यतिव्यापकम् । ५ संसारिप्वसंभवात् । नाप्यसंभवि ! प्रमाणतस्तत्प्रसिद्धेः । तथा हिक्वचित् कर्महानिः सामस्त्येन संभवति प्रकृष्यमाणत्वात् । कचन काञ्चने कालिकादिहानिवत् । न च कर्मण एवासत्त्वाद्धानेरसिद्धे. राश्रयासिद्धो हेतुः । तस्यानन्तरमेव प्रसाधितत्वात् । यदप्युक्तम्* परलो कसिद्धौ प्रमाणाभावात् ' इति तदपि नोपपन्नम् ! अनुमा- १० मागमयोस्तत्सद्भावावेदकयोर्विद्यमानत्वात् । तथा हि-प्राणिनामाचं चैतन्यं चैतन्योपादानकारणकं चैतन्यत्वात् मध्यचैतन्यवत् । तथा अन्त्यं चैतन्यं चैतन्यकार्यकं तत एव तद्वदित्यनुमानद्वयं पूर्वोत्तरअवोपलम्भकमस्त्येव । विशेषचर्चा त्वत्र प्रागेव सर्वज्ञसिद्धौ कृतेति नेह प्रतायते । आगमोऽपि स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्यमिति १५ प्रामाण्यं चास्य प्रागेव प्ररूपितमिति नेहाभिधीयते । यच्चावाचि' परलोकिनोऽभावः परलोकाभावः' इति तदपि परिफल्गु । परलोकिनः । .... .... .... .... .... .... .... प्रसाधितत्वात् । यच्चोक्तम्-'परलोकि चैतन्यं निरवयवत्वात् ' इति तत्रापि चैतन्यं द्रव्यरूपं पर्यायरूपं वा धर्मित्वेनाभिधित्सितम् । २० द्रव्यरूपं चेत्तर्हि हेतोरसिद्धिः । आत्मद्रव्यस्यास्माभिः सप्रदेशत्वेन स्वीकृतत्वात् । पर्यायरूपं चेत्तदा सिद्धसाध्यता, मरणसमयावच्छिन्नचैतन्यपरिणामस्य भवान्तरानुसरणासंभवात् । अस्तु वा यथाकथंचि
शैलेशी-शैलस्थेध मेरोरिव अचलता स्थिरता अस्यामवस्थामांसा शैलेशी। अथवा शीलं समाधानं तच्च निश्चयतः प्रकर्षप्राप्तसमाधामरूपत्वात्सर्वसंवरः। ततस्तस्य सर्वसंवररूपस्य शीलस्येश: शीलेश: तस्येयमपस्था शैलेशीति । :