________________
परि. ७ सू. ५६] स्याद्वादरत्नाकरसहितः : ११० संचिन्त्यतामौषधमातुरं. हि न ज्ञानमात्रेण करोत्यरोगम्" ॥ १ ॥ . अत्र महे - यदुक्तं . सम्यग्ज्ञानमेव फलसंपादनप्रत्यलमित्यादि ततात्पर्यवृत्या क्रियावादिनैव " प्रतिक्षिप्तमित्युप्रेक्षणीयमेव । यद्येनाविनाभावीत्यत्र प्रयोगे तु किं सम्यग्ज्ञानेनैवाविनाभावित्वं हेत्वर्थः किंवा सम्यग्ज्ञानेनापि । प्रथमपक्षे सिद्धता ५ मोक्षम्य क्रिययापि सार्धमविनाभावप्रसिद्धेः । संप्रयुक्ते एव हि सम्यरज्ञानक्रिये समीहितफलसिद्धिनिवन्धनं भवतः पङ्ग्वन्धवन्न पुनरनयोरन्यतरत् । तथा चोपनिषत्---' हेयं नाणं कियाहीणं हया अन्नाणओ किया। पासंतो पंगुलो दड्डो धावमाणो य अंधओ ॥ १॥ संजोगसिद्धीए फलं क्यन्ति नहु एगचकेण रहो पयाइ । अंधो य १० पंग य बणे समेचा ते संपउत्ता नगरं पविट्ठा ।' द्वितीयपक्षे तु विरुद्धता, सम्यग्ज्ञानेनाप्यविनाभावित्वस्य हेतोः । सम्यग्ज्ञाननिबन्धनत्वेनैव साध्येन विरुद्धस्य सम्यग्ज्ञानक्रियारूपोभयनिबन्धनत्वस्य प्रसाधकत्वात् । यदप्युक्तम् ' यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ' इति । तदप्ययुक्तम् । यतः सम्यग्ज्ञानकारणैकान्त- १५ वादिनामेवायमुपालम्भो न पुनरस्माकम् । सम्यग्ज्ञानक्रिययोरुभयोरपि परस्परापेक्षयोः 'कारणत्वस्वीकारात् । न च नितम्बिनीमोदकादिगोचरायां प्रवृत्तौ तद्विज्ञानं सर्वथा नास्त्येव । अतः क्रियाया एव तत्कारणता कल्पेत । तद्गोचरविज्ञानसनाथैव हि तत्र प्रवृत्तिः प्रीतिपरम्परोत्पादनप्रत्यया, अन्यथोन्मत्तमूर्च्छितादेरपि प्रौढप्रेमपरायणप्रणयि- २० नीनिबिडाश्लेषक्रियापि तदुत्पादाय किं न स्यात् । अथासौ क्रियैव तत्त्वतो न भवति । सैव हि क्रिया तात्त्विकी या स्वकीयकार्या____ + हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पंगुर्दग्धो धावमानश्चान्ध: ।। ११५९ ॥ संयोगसिद्धौ फलं वदन्ति न खल्वेकचक्रेण स्थः प्रयाति । अन्धश्च पंगुश्च बने समेत्य तौ संप्रयुक्तो नगरं प्रविष्टौ॥११६५॥ इति छाया । विशे. • क्रियव फलदा पुंसां न ज्ञानं फलदं मतम् । इति पूर्वार्धम् । शास्त्र. स. ११ -स्त. ३५ श्लो. क्रियावादिमतप्रदर्शने ।