________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ७ स. ५६ णादिका ताभ्याम् । ननु सम्यग्दर्शनमपि कृत्स्नकर्मक्षयकारणमेव । यदाहुः- सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ' इति, तत्कथमिह नोपदिष्टम् । उच्यते--सम्यग्ज्ञानोपादानेनैव तस्याक्षिप्तत्वात् । न खलु सम्यग्दर्शनमन्तरेण सभ्यग्ज्ञानं संभवति । द्वयोरप्यनयोः ५. सहचरत्वात् । सम्यग्ज्ञानपूर्विका सैव ( तत्कारणम् ।
न पुनर्मिथ्यात्वमलपटलावलुप्त विवेकविकलानां मिथ्याज्ञानपूर्विका कुन्दफलमूलशैवालकवलनादिका । कृत्स्नस्याष्टप्रकारस्यापि, न तु कतिपयस्य, जीवनमुक्तेरनभिधित्सितत्वात् । कर्मणो ज्ञानावरणादेरट्ट
टस्य, न तु बुद्धयादिगुणानामपि, नापि ज्ञानमात्रसंतानस्य । क्षयः ९० सामस्त्येन प्रलयः स्वरूपं यस्याः सा तथा । एतेन नैयायिक
सौगतोपकल्पितमुक्तिप्रतिक्षेपः । एवंविधा सिद्धिर्मोक्षो भवति । इह केचिज्ज्ञानादेव मोक्षमास्थिषत, तथा ते ब्रुक्ते-सम्यग्ज्ञानमेव फलसंपादनप्रत्यलम् , न क्रिया; अन्यथा मिथ्याज्ञानादपि
क्रियायां फलोत्पादप्रसङ्गात् । यदुक्तम्--- १५ "विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता।
मिथ्याज्ञानात् प्रवृत्तस्य फलाऽसंवाददर्शनात् "॥ १ ॥ तथा-- "श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्टि । - संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः" ॥१॥
क्रियावादिनस्तु वदन्ति--क्रियैव फलहेतुर्न ज्ञानाम् , भक्ष्यादिविज्ञानेऽपि क्रियामन्तरेण सौहित्यादिफलानुत्पादात् । यदवाचि• “क्रियैव फलदा पुंसां न ज्ञानं फलंदं मतम् ।
यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत्" ।। १ ।।
तथा२५ "शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् ।
. १ तत्वार्थ. १ -१