________________
परि. ७ सू. ५६] स्याद्वादरत्नाकरसहितः ११०५ निमित्तनिमित्तीभावो न विरुध्यते । न चैवमनवस्थापतिः कार्यकारणभावेन तत्सन्तानस्यानादेरविरोधात् । मिथ्याश्रद्धानादिजीवपरिणामनिमित्तत्वाच्च नानिमित्तानि कर्माणीति । यत्तु परलोकाननुसरणं कर्मणां प्रासज्यत तदपि नोपपद्यते । यतः फलावसानानि कर्माणि । न च तानि कर्माण्यद्यापि निष्पादितफलानीति यावत्फलं तदनुवृतिरविरुद्धा। ५ बाह्यं तु शरीरादिकं कर्मफलमिति, कृतफलत्वात्तत्कारणकर्मापगमे तन्निवृत्तिर्भवत्येव । मूर्तद्रव्यान्तरप्रतिधातोऽपि कर्म गां नोपपन्नः। सूक्ष्मपरिणामापन्नत्वेन तेषां केनचिदप्रतीघातादतिकठिनाय:पिण्डान्त:प्रविष्टपावकवत् । अदृश्यमानं चैतद्यदि नोत्पादयितुं शक्येत तदा भवतामपि मते कथनुत्पाद्येत । अदृश्योऽपि गुणः समुत्पाद्यते न पुन- १० व्यमिति स्वेच्छामात्रम् । मूर्त मूर्तेनैव विनाशनीयमित्यपि नियमो नास्ति । ध्यानावेशवशाकेचिद्धटादिस्फोटनदर्शनादशक्तिसौधाधिरूढा तत्युद्गलप्रचयात्मता स्वीकर्तुं कर्मणो योग्या शक्ताद्यास्मकता । ननु
तस्माञ्चैतन्यसंझं सततमविकलं स्वस्वरूपं दधानः साक्षाभोक्ता स्वकर्मक्षितिरुहनिवहो जम्भितानां फलानाम् । देहे देहे विभिन्न : परिणतिरसिकः स्वीयकायप्रमाणः सिद्धः कर्ता यमात्मा प्रमितिपरिकरादस्तनिःशेषदोषात्
॥ ८०७ ॥ ५५ ॥ अथात्मन एव विशेषणोत्तराभिधित्सया प्राहतस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृ. मकर्मक्षयस्वरूपासिद्धिरिति ॥५६॥
तम्यानन्तरनिरूपितस्वरूपस्यात्मना उपात्तपुंस्त्रीशरीरस्य स्वीकृत पुरुषयोषिद्वपुषः । एतेन स्त्रीनिर्वाणद्वेषिणः काष्ठाम्बरान् शिक्षयति । सम्यग्ज्ञानं च यथावस्थितवस्तुतत्त्वावबोधः, क्रिया च तपश्चर- २५