________________
१०५६
प्रमाणनयतत्त्वालोकालङ्कारः [ परि० ७ सु. २
अत्रैतदाभासमाह —
द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निहुवानस्तदाभास इति ॥ २१ ॥
तदाभासोऽपरसंग्रहाभासः । शेषं सुगमम् । विशेषेण्यौदासीन्यं ५ समाश्रयमाणो ह्यभिप्रायविशेषोऽपरसंग्रहत्वेन लक्षितः । यः पुनर्द्रव्यत्वादीनि स्वीकुर्वाणोऽपि तद्विशेषानपहुते स तदाभासः प्रतीतिविरोधादिति ॥ २१ ॥
१०
उदाहरणमाह
यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिरिति ॥ २२ ॥
एतद्धि वाक्यं द्रव्यत्वस्यैव तात्त्विकतां प्रख्यापयति । तद्विशेष
द्विन्नानां
भूतानि तु धर्मादिद्रव्याण्यपहृत इत्यपरसंग्रहाभासनिदर्शनत्वेन दर्शितम् । तथा धर्मत्वमेवाधर्मत्वमेवाकाशत्वमेव कालत्वमेव पुद्गलत्वमेव जीवत्वमेव तत्त्वम् । ततोऽर्थान्तरभूतानां धर्माधर्माकाशपुद्गलजी१५ वाख्यानां विशेषाणामनुपलम्भात् । एवं पर्यायत्वमेव तत्त्वम् । तद्व्यतिरिक्तपर्यायाणामनुपलब्धेः क्रमभाविपर्यायत्वमेव । तस्माक्रमभाविपर्ययविशेषाणामदर्शनात्सह भाविगुणत्वमेव. तत्त्वम् | ततः पृथग्भूतानां सहभाविपर्यायस्वरूपाणां गुणानां प्रमाणतोऽप्रतिपत्तेरित्येवमादीन्यप्यपर संग्रहाभासोदाहरणान्यादिशब्दा२० त्सूचितानि द्रष्टव्यानि । सर्वत्र चापरसंग्रहाभासत्वे कारणं प्रमाणविरोध एवावधारणीयः । द्रव्यत्वपर्यायत्वादिसामान्येभ्यः कथंचिदर्थान्तरभूतानां तद्विशेषाणां द्रव्यपर्यायादीनामपि प्रमाणबलत तात्त्विकत्वेन विषयपरिच्छेदे व्यवस्थापितत्वात् । एवमपरापरद्रव्यपर्यायभेदप्रभेदसामान्यमेव तात्त्विकानीत्यभिप्रायाः सर्वेऽप्यपरसंग्रह [भासाः प्रत्येयाः २५ प्रतीत्यविरुद्धस्यैवापर संग्रह प्रपञ्च स्यावस्थितत्वादिति ।