________________
परि. ७ सू. २० ] स्याद्वादरत्नाकरसहितः सचाऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाण
स्तदाभासः ॥ १७॥ अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः संग्रहाख्यां लमते, न चायं तथेति तदाभासः ।। १७॥
उदाहरान्तियथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणाम
दर्शनात् ॥ १८ ॥ अद्वैतत्वादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् । अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ॥ १८ ॥
अथापरसंग्रहमाहुःद्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्धेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥१९॥
द्रव्यत्वमादिपेषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपे- १५ क्षाम् ॥ १९ ॥ __ उदाहरन्तिधर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्य
त्वाभेदादित्यादिर्यथा ॥ २०॥ अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षण लिङ्गानुमितद्रव्यत्वात्मक- २० त्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाच्चेतनाचे ) तनपर्यायाणां सर्वेषामेकत्वं पर्यायत्वाविशेषादित्यादीन्यप्युदाहरणानि सूचितानीति ॥ २० ॥