________________
२०५४
प्रमाणनयतत्त्वालोकालङ्कारः परि. ७ सू. १३ भावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रहः। संग्रहनामा नयो द्रव्यार्थिकाख्यमूलनयस्य द्वितीयो भेदः । इदमुक्तं भवतिस्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यग्रहणं स संग्रहनय इति । तदुक्तम् -
' ऐकध्येन विशेषाणां ग्रहणं संग्रहो नयः । स्वजातरविरोधेन दृष्टेष्टाभ्यां कथंचन ।। समेकीभावसम्यक्त्वे वर्तमानो हि गृह्यते । निरुक्त्या लक्षणं तस्य तथा सति विभाव्यते ॥'
ऐकध्येनेति एकत्वेन । एतच्च विशेषणं श्रुतप्रमाणस्य संग्रहत्व-१० व्यपोहाय श्रुतप्रमाणेनैकतया समस्तार्थग्रहणाभावान्नानेकात्मकाशे
पार्थविषयतया तस्य समर्थनात् । संग्रहस्य त्वेकत्वार्पणे सर्वार्थपरिच्छेदकत्वात्सम एकीभावार्थत्वात् ....
.... ॥१३॥ ( अमुं भेदतो दर्शयन्ति
अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ १५ तत्र परसंग्रहमाहुःअशेषविशेषेष्वोदासीन्यं भजमानः शुद्धद्रव्यं
सन्मात्रमभिमन्यमानः परसंग्रहः ॥ १५॥ परामर्श इत्यग्रेतनेऽपि योजनीयम् ॥ १५ ॥
उदाहरन्ति२० विश्वमेकं सदविशेषादिति यथा ॥१६॥
अस्मिन्नुक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां संगृह्यते ॥ १६ ॥
एतदाभासमाहुः
---
-
-
१ त. श्लो. वा. पृ. २७० श्लो. ४९-५०.