________________
परि. ७ सू. १३] स्याद्वादरत्नाकरसहितः तथा प्रस्थादिसंकल्पस्तदभिप्राय इष्यते ॥' इति । इत्येष नैगमनयः कथितोऽत्र किंचित्
द्रव्यार्थिकप्रथमभेदतया प्रतीतः । अस्य स्वरूपमखिलं श्रुतकेवलिभ्यः शक्तः परः कथयितुं निपुणोऽपि नैवम् ॥ ७१८ ॥ १० ॥ ५. अथ नैगमाभासं कथयन्नाहधर्मद्वयादीनामैकान्तिकपार्थक्याभिसंधिनेगमा
भास इति ॥ ११॥ - धर्मद्वयमादिर्येषां ते धर्मद्वयादयस्तेषां धर्मद्वयादीनां धर्मद्वयधर्मिद्वयधर्मधर्मिद्वयानामित्यर्थः । ऐकान्तिकपार्थक्याभिसंधिररात्यन्तिकभेदा- १०. भिप्रायो नैगमाभासो नैगमदुर्नय इत्यर्थः ॥ ११ ॥
अत्रोदाहरणमाहयथात्मनि सत्वचैतन्ये परस्परमत्यन्तं पृथग्भूते
इत्यादिरिति ॥ १२ ॥ इयं सत्त्वचैतन्यलक्षणयोधर्मयोरैकान्तिकभेदेनोक्तिनँगमाभासत्वेन १५ दर्शिता । आदिशब्दाद्वस्त्वाख्यपर्यायवद्व्याख्ययोर्धर्मिणोः सुखजीवलक्षणयोधर्मधामणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम् । नैयायिकवैशेषिकयोर्दर्शनं चैतदाभासतथा ज्ञेयम् । प्रमाणबाधितं धर्मधर्म्यादीनामैकान्तिकभेदं पुरःसरीकृत्य तस्य प्रवृत्तत्वात् । प्रमाणबाधा च धर्मधादिविषयस्य सर्वथा भेदस्य २० प्रागेव विषयपरिच्छेदे दर्शितेति ॥ १२ ॥
उक्तो नैगमाभासः संप्रति संग्रहनयस्वरूपमुपदर्शयन्नाह-- सामान्यमात्रग्राही परामर्शः संग्रह इति ॥ १३॥
सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः सामान्यमात्रग्राही परामर्शः प्रतिपत्तुरभिप्रायविशेषः । सम्-एकी- २५