________________
१९५२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ७ सू. १० विनिर्दिष्टोऽर्थपर्यायाशुद्धद्रव्यगनैगमः ।। सुखजीवभिदोक्तिस्तु सर्वथा मानबाधिता । दुर्नीतिरेव बोद्धव्या शुद्धबोधैरसंशयाम् ॥ विद्यते चापरोऽशुद्धद्रव्यव्यञ्जनपर्ययौ । अर्थीकरोति यः सोऽत्र नागुणीति निगद्यते ॥ भेदाभिसंधिरत्यन्तं प्रतीतेरपलापतः । पूर्ववन्नैगमाभासः प्रत्येतव्यौ तयोरपि । नवधा नैगमस्यैवं ख्यातेः पञ्चदशोदिताः।
नयाः प्रतीतिमारूढाः संग्रहादिनयैः सह ॥' इति । एते च नवापि नैगमनयभेदा अस्मदुक्तनैगमनयभेदत्रयमध्य एवावतरन्तीति न पृथक् सूत्रिताः । तथा हि-पर्यायनैगमस्तावत्रिविधोऽपि धर्मद्वयविषयाख्ये नैगमप्रथमभेदेऽन्तर्भवति । द्रव्यनैगमस्तु द्विभेदोऽपि धर्मियुग्मगोचराख्थे नैगमद्वितीयभेदेऽनुप्रविशति ।
द्रव्यपर्यायनैगमः पुनश्चतुःप्रकारोऽपि धर्मधालम्बनाख्ये नैगमतृतीय१५ भेदे निमज्जतीति । एवं चैतद्वयवस्थितम् ।।
धर्मयोधर्मिणोधर्मधर्मिणोश्च विवक्षणम् ।
गुणप्रधानभावन नैगमस्तद्विदां मतः ॥ ७१७ ॥ अथवेदं नैगमस्य लक्षणं द्रष्टव्यम् । ' अनिष्पन्नार्थसंकल्पमात्रग्राही नैगमः ' इति । निगमो हि संकल्पस्तत्र भवस्तत्प्रयोजनो वा २० नैगमः । यथा कश्चित्पुरुषो गृहीतकुठारः पथि गच्छन्किमर्थं भवान्
गच्छतीति केनचित्पृष्टः प्रतिवक्ति प्रस्थमानेतुमिति । एधोदकाद्याहरणे या कश्चित्युमान्व्याप्रियमाणः किं करोति भवानिति केनापि पर्यनुयुक्तः प्राह ओदनं पचामीति । न च प्रस्थपर्याय ओदनो वा
निष्पन्नस्तन्निष्पत्तये संकल्पमात्रे प्रस्थादिव्यवहारात् । यथोक्तम्-- २५ 'संकल्यो निगमस्तत्र भवोऽयं तत्प्रयोजनः।।
१त. श्लो. वा. धृ. २६९ श्लो. १८.