________________
१०५१:
परि. ७ सू. १० स्याद्वादरत्नाकरसहितः
सचैतन्यं नरीत्येवं सत्त्वस्य गुणभावतः । प्रधानभावतश्चापि चैतन्यस्याभिसिद्धितः ॥ तयोरत्यन्तभेदोक्तिरन्योन्यं स्वाश्रयादपि । ज्ञेयो व्यञ्जनपर्यायनैगमाभो विरोधतः । अर्थव्यञ्जनपर्यायौ गोचरीकुरुते परः । धार्मिके सुखजीवित्वमित्येवमनुरोधतः ॥ भिन्ने तु सुखजीवित्वे योऽभिमन्येत सर्वथा । सोऽर्थव्यञ्जनपर्यायनैगमाभास एव नः ।। शुद्धद्रव्यमशुद्धं च तथाभिप्रेति यो नयः । स तु नैगम एवेह संग्रहव्यवहारजः॥ सद्व्यं सकलं वस्तु तथान्वयविनिश्चयात् । इत्येवमवगन्तव्यस्तद्भिदोक्तिस्तु दुर्नयः॥ यस्तु पर्यायवद्रव्यं गुणवद्वेति निर्णयः । व्यवहारनयाजातः सोऽशुद्धद्रव्यनैगमः॥ तन्देदैकान्तवादस्तु तदाभासोऽनुमन्यते । तथोक्तेर्वहिरन्तश्च प्रत्यक्षादिविरोधतः ।। शुद्धद्रव्यार्थपर्यायनैगमोऽस्ति परो यथा । सत्सुखं क्षणिकं शुद्धं संसारेऽस्मिन्नितीरणम् ॥ सत्त्वं सुखार्थपर्यायादिन्नमेवेति संमतिः। दुर्नीतिः स्यात्सबाधत्वादिति नीतिविदो विदुः ।। गोचरीकुरुते शुद्धो द्रव्यव्यञ्जनपर्ययौ । नैगमोऽन्यो यथा सचित्सामान्यमिति निर्णयः ॥ सचित्सामान्ययोर्मेदं सर्वथा यानुमन्यते । दुर्नीतिरेव मन्तव्या सा मनीषा मनीषिभिः ।।
क्षणमेकं सुखी जीवो विषयीति विनिश्चयः । १ एतच्छोकमेकं तु नोपलभ्यते तत्त्वार्थश्लोकवार्तिके।
२०.