________________
नेगमश्चेति । तयश्चतुर्धा शुद्ध, अशुद्धद्रव
प्रमाणनयतत्त्वालोकालङ्कारः परि. ७ सू. १० प्राधान्येनोभयात्मानमर्थं गृह्णद्विवेदनम् ।।
प्रमाणं नान्यदित्येतत्प्रपञ्चेन निवेदितम् ।।' इति । अन्ये पुनरित्थं नैगमस्य त्रैविध्यमभिसंधाय नवधा तं वर्णयांबभूवुः । तथा हि-पर्यायनगमो द्रव्यनगमो द्रव्यपर्यायनैगमश्चेति त्रयो ५ मूलभेदाः । तत्र प्रथमस्त्रेधा । अर्थपर्यायद्वयनैगमो व्यञ्जनपर्यायद्वय
नैगमोऽर्थव्यञ्जनपर्यायनैगमश्चेति । द्वितीयो द्वेषा शुद्धाशुद्धद्रव्यनैगमोऽशुद्धद्रव्यद्वयनैगमश्चेति । तृतीयश्चतुर्धा शुद्धद्रव्यार्थपर्यायनैगमः, शुद्धद्रव्यव्यञ्जनपर्यायनैगमः, अशुद्धद्रव्यार्थपर्यायनैगमः, अशुद्धद्रव्य
व्यञ्जनपर्यायनैगमश्चेति .... .... .... .... .... ... .... १० णी पुरुष इत्यशुद्धद्रव्यव्यञ्जनपर्यायनैगमः । अत्र पुरुषस्याशुद्धद्रव्यस्य
विशेष्यत्वान्मुख्यत्वम् । गुणित्वस्य तु व्यञ्जनपर्यायस्य तद्विशेषणत्वादमुख्यत्वम् । गुणित्वषुरुषयोः सर्वथा पार्थक्याभिसंधिः पुनरेतदाभास इति । भवन्ति चात्र पूर्वाचार्यकारिकाः
'तेत्र पर्यायगस्त्रेधा नैगमो द्रव्यगो द्विधा । द्रव्यपर्यायगः प्रोक्तश्चतुर्भेदो ध्रुवं बुधैः ।। अर्थपर्याययोस्तावद्गुणमुख्यस्वभावतः । क्वचिद्वस्तुन्यभिप्रायः प्रतिपत्तुः प्रजायते ।। यथा प्रतिक्षणध्वंसिसुखसंविच्छरीरिणः । इति सत्तार्थपर्यायो विशेषणतया गुणः ।। संवेदनार्थपर्यायो विशेष्यत्वेन मुख्यताम् । प्रतिगच्छन्नभिप्रेतो नान्यथैवं वचोगतिः॥ सर्वथा सुखसंविच्योर्नानात्वेऽभिमातेः पुनः । स्वाश्रया चार्थपर्यायनैगमाभो प्रतीतितः॥ कश्चिद्वयञ्जनपर्यायो विषयीकुरुतेऽञ्जसा ।
गुणप्रधानभावेन धर्मिण्येकत्र नैगमः ॥ १त. लो. वा. पृ. २६९ श्लो. २३. २ त. लो .. पृ. २६९.