________________
परि. ७ सू. १०] स्याद्वादरत्नाकरसहितः
१०४९ अथास्योदाहरणत्रयीं सूत्रत्रयेणाह__सन्चैतन्यमात्मनीति धर्मयोरिति ॥ ८॥ - प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योगः । अत्र च चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणं विशेष्यत्वात्। सत्ताख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन तस्य चैतन्य- ५ विशेषणत्वादिति सुस्पष्ट एवायं धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ॥ ८॥
वस्तुपर्यायवद्रव्यमिति धर्मिणोरिति ॥ ९॥ अत्र हि पर्यायवद्दव्यं वस्तु वर्तत इति विवक्षायां पर्यायवव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम् । वस्त्वाख्यस्य तु १० विशेषणत्वेन गौणत्वम् । यद्वा किं वस्तुपर्यायवद्द्व्यमिति विवक्षायां वस्तुनो विशेष्यत्वात्प्राधान्यं पर्यायवव्यस्य विशेषणस्वागौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ॥ ९॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणो.
रिति ॥ १०॥ १५ अत्र हि विषयासक्तजीवाख्यम्य धर्मिणो मुख्यता, विशेष्यत्वात् । सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्मधालम्बनोऽयं नैगमस्य तृतीयो भेदः । न चास्यैवंप्रमाणकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसंभवात् । तयोरन्यतर एव . हि नैगमनयेन प्रधानतयानुभूयते प्राधान्येन द्रव्यपर्यायद्वयात्मकं २० चार्थमनुभवद्विज्ञानं प्रमाण प्रतिपत्तव्यं नान्यत् । तदुक्तम्--
प्रमाणात्मक एवायमुभयग्राहकत्वतः । इत्ययुक्तमिह ज्ञप्तेः प्रधानगुणभावतः ॥ १ त. लो. वा. पृ. २६९ श्लो. २२.