________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ७ सू. ५ सामान्यतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थि
कश्चेति ॥ ५॥ .........स्य पृथक्त्वेन द्रव्यादनुपपत्तितः सादृश्यपरिणामस्य तथा व्यञ्ज
नपर्यायान्वैसादृश्यविवर्तस्य विशेषस्य च पर्यायोऽन्तर्भावाद्विभाव्येत । '५ द्वौ तन्मूलं नयाविति । सामान्यस्येति, ऊर्ध्वतासामान्यस्येत्यर्थः ।
सादृश्यपरिणामस्येति तिर्यक्सामान्यस्येत्यर्थः । तन्मूलमिति तेषां नैगमादीनां मूलम् । एतेन नामादिचतुष्टयद्वारतो द्रव्यक्षेत्रादिचतुष्टयद्वारतश्च तन्मूलनयचतुष्टयप्रसंजनं प्रत्युक्तम् । नामादीनां द्रव्यक्षेत्रादीनां च द्रव्यपर्याययोरेवान्तर्गतत्वादिति ।
तदित्थं न्यायतः सिद्धौ द्रव्यपर्यायगोचरौ । द्वावेव नेगमादीनां मूलभूतो नयाविह ॥ ७१६ ॥ ५॥ अथ द्रव्यार्थिकभेदाविर्भावनायाहआद्यो नैगमसंग्रहव्यवहारभेदात्त्रेधेति ॥६॥
आद्यो द्रव्यार्थिकनयः ।। ६ ॥ १५ तत्र नैगमप्ररूपणायाहधर्मयोधर्मिणोधर्मधर्मिणोश प्रधानोपसर्जनभावेन
यद्विवक्षणं स नैकगमो नैगम इति ॥७॥ धर्मयोः पर्याययोधर्मिणोर्द्रव्यपर्याययोश्च समुच्चयः प्रधानोपसर्जनभावेन मुख्यामुख्यरूपतया यद्विवक्षणं योऽभिप्रायः स एवंरूपः । २० नैके गमा बोधमार्गा यस्यासौ नैकगमोऽनेकमार्गोऽनेकप्रकार इति निरुक्तान्नैगमो नैगमनामाऽनयोर्द्रव्यार्थिकस्य प्रथमो भेदः । एवं धर्मद्वयविषयो धर्मियुग्मगोचरो धर्मधालम्बनश्चेति त्रिभेदत्वं नैगमस्योक्तं भवति । एतेन गुणगुणिनोरवयवावयविनोः क्रियाक्रियावतो
र्जातितद्वतोश्च प्रधानोपसर्जनभावेनाभिसंधि गम इत्यप्ययुक्तं द्रष्टव्यम् । २५ गुणगुण्यादीनां धर्मधर्मिणोरेवान्तर्भावात् ॥ ७ ॥