________________
१०४५
परि. ७ सू. १] स्याद्वादरत्नाकरसहितः • यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसंगा
समुद्रबहुत्वापचेर्वा तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रत्वे वाऽशेषसमुद्रांशानामप्यसमुद्रत्वात्वचिदपि समुद्रव्यवहारायोगात्समुद्रांशः समुद्रांश एवोच्यते । तथा स्वार्थैकदेशो नयस्य न वस्तु, स्वाथैकदेशान्तराणामवस्तुत्वप्रसंगाद्वस्तुबहुत्वानुषक्तेर्वा । नाप्यवस्तु, ५ विशेषांशानामप्यवस्तुत्वेन क्वचिदपि वस्तुव्यवस्थानुपपत्तेः । किं तर्हि वस्त्वंश एवासौ तादृक्प्रतीते/धकाभावात् । ततो वस्त्वंशे प्रवर्तमानो नयः स्वार्थकदेशव्यवसायलक्षणो न प्रमाणम् । नापि मिथ्याज्ञानमिति । ननु च यथांशो न वस्तु नाप्यवस्तु किं तर्हि वस्त्वंश एवेति मतं, तथांशी न वस्तु नाप्यवस्तु, तस्यांशित्वादेव वस्तुनोंऽशांशिसमूह- १० लक्षणत्वात् । ततोऽशेष्विव प्रवर्तमानं ज्ञानमंशिन्यपि नयोऽस्तु । नो चेद्यथा यथा तत्र प्रवृत्तं ज्ञानं प्रमाणं तथांशेष्वपि, विशेषाभावात् । तथोपगमे च न प्रमाणादपरो नयः समस्ति । तदुक्तम्
'यथाशिनि प्रवृत्तस्य ज्ञानस्येष्टा प्रमाणता । .
तथांशेष्वपि किं न स्यादिति मानात्मको नयः' ॥ इति । १५ एतदप्ययुक्तम् । यतो गुणीभूताखिलाशोऽशिनिर्ज्ञानं नय एव, तत्र द्रव्यार्थिकनयस्य व्यापारात् । प्रधानभावार्पितसकलांशे तु प्रमाणमिति नानिष्टापत्तिः । अंशिमात्रज्ञानस्य प्रमाणत्वानभ्युपगमात् । ततः प्रमाणादपर एव नय इति । तथा चोक्तम्
'अंशिन्यपि हि निःशेषधर्माणां गुणतागतौ । द्रव्यार्थिकनयस्यैव व्यापारान्मुख्यरूपतः ।। धर्मिधर्मसमूहस्य प्राधान्यार्पणया विदः । प्रमाणत्वेन निर्णीतेः प्रमाणादपरो नयः ॥' इति ।
१त. श्लो. वा. पृ. १२३ श्लो. १८. २ त. श्लो. वा. पृ. १२३ श्लो. १९-२०