________________
अथ सप्तमः परिच्छेदः।
( एतावता प्रमाणत्वं व्यवस्थाप्येदानी नयतत्त्वं व्यवस्थापयन्ति-) नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो
नयः ॥ १॥
... नैगमादिप्रभेद इति । ननु नयस्य प्रमाणोद्भेदेन लक्षणप्रणयनमयुक्तम् । स्वार्थव्यवसायकत्वेन तस्य प्रमाणस्वरूपत्वात् । तथा हि-- नयः प्रमाणमेव स्वार्थव्यवसायकत्वादिष्टप्रमाणवत् ।
स्वार्थव्यवसायकस्याप्यस्य प्रमाणत्वानभ्युपगमे प्रमाणस्यापि १० तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् । तदसत् । नयस्य स्वाथै
कदेशनिर्णीतलक्षणत्वेन स्वार्थव्यवसायकत्वासिद्धेः । ननु नयविषयतया संमतोऽर्थैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी नयः प्रमाणमेव । वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य । स न चेद्वस्तु तर्हि तद्विषयो
नयो मिथ्याज्ञानमेव स्यात् । तस्यावस्तुज्ञानविषयत्वलक्षणत्वादिति १५ चेत् । तदप्यवद्यम् । अथैकदेशस्य वस्तुत्वावस्तुल्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात् । तथा चावाचि विपश्चिद्भिः
'नायं वस्तु नं चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता ।
समुद्रबहुता (त्वं ) वा स्यात्तचेत्कास्तु समुद्रवित् ॥' इति । १ रत्नाकरावतारिकात इदमवतरणमुध्दृतम् । २ त.श्लो.वा. पृ. ११८श्लो. ५-६.