________________
परि. ६ स्. ८७] स्याद्वादरत्नाकरसहितः
१०४३ पगतं फलाभासमेव । एतच्च सर्वमत्रैव परिच्छेदे विस्तरतोऽभिहितमिति न भूयः प्रतन्यत इति ।। आभासानां स्वरूपं तदिदमविचलं किंचिदेवं प्रणीतं
ज्ञात्वा चैतत्समग्रं स्फुरितमतिगुणैर्वजनीय स्वपक्षे । उद्भाव्यं त्वन्यपक्षे झगिति सहृदयप्राश्निकानां समक्षं येन स्याच्छासनस्य त्रिजगति महतां माननीया यशःश्रीः॥७०८॥ मूलतोऽत्र फलं तावत्प्रमाणस्य परीक्षितम् । आभासास्तत्स्वरूपादेर्दर्शितास्तदनन्तरम् ।। ७०९ ।। यस्याप्राप्य जिनेश्वरस्य समयारामोदर सुन्दरं
भ्राम्यन्तः कुविकल्पदुस्तरमरोर्मार्गेषु दुम्तीर्थिकाः । मुह्यन्ति प्रमितिप्रमेयमितिषु क्षीणप्रमोदाश्चिरं सारङ्गा मृगतृप्णिकास्विव स वः श्वःश्रेयसानि क्रियात् ।। ७१० ॥ दूरादपास्य दुरितानि पुरार्जितानि
श्रीसुव्रतः प्रतनुतां कुशलानि देवः । यत्प्रक्रमाम्बुजयुग सुधियः स्मरन्तः
किं नाम नैव परमं पदमाप्नुवन्ति ।। ७११ ॥ श्रीसुव्रतक्रमयुगारुणकान्तिजाल
किञ्जल्कपुञ्जपरिचुम्बनभृङ्गपत्नी । देवी नरेश्वरशतप्रणताघ्रियुग्मा
भूयादभीप्सितकरीह सुदर्शना नः ।। ७१२॥ २० यः क्षेत्र कान्तिलक्ष्योरमृतरसमुचां यः कलानां निधानं ___सत्तेषु प्रधानं य इह निरवधिस्तारकाणां पतियः ।
नालीकानां न सोढा शिरसि कृतकरस्तुङ्गभूमीधराणामज्ञानध्वान्तबन्धं विघटयतु स नः पूर्णचन्द्रो मुनीन्द्रः ॥७१३॥ ८७|| __इत्युपदेशपदप्रासादप्रद्योतनप्रदीपश्रीमन्मुनिवन्द्रमरिसदसरसिजोप- २५ जीविना श्रोदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्यालोकालङ्कारे फलस्वरूपनिर्णयो नाम षष्ठः परिच्छेदः समाप्तः ॥६॥