________________
१०४२ प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ सू. ८६
अथ विषयाभासं प्रकाशयन्नाहसामान्यमेव विशेष एव तद्वयं वा स्वतन्त्रमित्या
दिस्तस्य विषयाभास इति ॥ ८६॥ सामान्यमानं सत्ता द्वैतवादिनो, विशेषमात्रं सौमतस्य, तदुभयं च ५ स्वतन्त्रं नैयायिकादेरित्यादिरेकान्तस्तस्य प्रमाणस्य विषयामासः । न
सम्यग्विषय इत्यर्थः । आदिशब्दान्नित्यमेवानित्यमेव तद्वितयं वा परस्परनिरपेक्षमित्यायेकान्तपरिग्रहः । यथा च सामान्यायेकान्तस्य न प्रमाणविषयत्वं तथा प्रागेव विषयपरिच्छेदे प्रपञ्चितमिति नात्र भूयान्प्रयासः ॥ ८६ ॥
फलाभासमाहअभिन्नमेव भिन्नमेव वा प्रमाणात्फलम् । तस्य
तदाभासमिति ॥ ८७ ॥ अभिन्नमेव प्रमाणात्फलं बौद्धाभ्युपगतम् । भिन्नमेव च नैयायिकादिस्वीकृतम् । तस्य प्रमाणस्य तदाभासं फलाभासमित्यर्थः । १५ अत्यन्ताभेदे हि प्रमाणफलयोरिदं प्रमाणमिदं फलमिति विभागस्या
नुपपत्तिः । प्रमाणमात्रस्यैव तात्त्विकत्वानुषंगात् । अप्रमाणव्यावत्यफलव्यावृत्तिभ्यां पुनस्तयोविभागकल्पनायां प्रमाणान्तरव्यावृत्तिफलान्तरव्यावृत्तिभ्यामप्रमाणत्वाफलत्वयोरपि प्रसक्तिः। एकान्तभेदे पुनः प्रमाणफलयोर्विवक्षितपुरुषसंबन्धिप्रमाणस्यैव पुरुषान्तरसंबन्धिप्रमाणस्यापि विवक्षितं फलं प्रसज्येताविशेषात् । यत्रैवात्मनि यत्प्रमाणं समवेतं तत्फलमपि तत्रैवेति समवायलक्षणया प्रत्यासत्या प्रमाणफलयोर्व्यवस्थासिद्धेत्मिान्तरप्रमाणस्य विवक्षितफलप्रसंग इति संगतं समवायस्य सर्वगतत्वाच्च सर्वात्मप्रत्यासत्तिसंभवेन व्यवस्थाहेतुत्वासिद्धेः । तस्मादेकान्तेनाभिन्न भिन्नं च प्रमाणात्फलं तीथिकाभ्यु
२०